SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] [ इत्युभे निष्क्रान्ते] विष्कम्भकः । (ततः प्रविशति यथानिर्दिष्टये वनान्तस्थस्तत्त्वप्रपञ्चनेन सह विजयेन्द्रः) विजयेन्द्रः- ( स्मरणमभिनीय) सिद्धिं दिशन्नपि ममाद्य गुरोः प्रसादः कालुष्यमर्पयति मे रभसाद्वियोगात् । उद्योतयन्नपि विशालगृहान्तरालं मालिन्यबद्धमतिदीपशिखाप्ररोहः || ५ || (वसंततिलका) तत्त्वप्रपञ्चनः- पूज्यपादैरेवममरत्वपदवीप्राप्तये भवतश्चिन्त्य (मानोऽस्त्युपायः) अपि (तद) धिगतुं [मुञ्च ] व्यामोहं मुग्ध ! यथा सम्प्रति तैर्यतितुं प्रारब्धमस्ति तथानेकशस्तादृशीः [सिद्धी: ] प्राप्स्यसि तन्मा धासीर्वैधुर्यम् । किं न श्रुतम् ? । व्रजत्यधोऽधो यात्युच्चैर्नरः स्वैरेव कर्मभिः । [चतुर्थोऽङ्कः खनितेव हि कूपस्य, प्रासादस्येव कारकः ॥ ६ ॥ तस्मात् सर्वमिदं विस्मार्य गुर्वादेशपरायणेन भवितव्यम् । (अनुष्टुप्) विजयेन्द्रः- वयस्य ! जानामि सर्वं परमित्यर्द्धते (तथा स्तम्भं) नाटयति । तत्त्वप्रपञ्चनः- (स्वगतम्) कथंकारं कर्त्तव्यकर्मणि प्रवर्तिष्यते, निबिडो ग्रहस्तस्यामस्य तदयमेकहेलया निषिध्यमानः सर्वथा विनंक्ष्यतीति पयःपूरपूर्यमाणस्तडाग इव परीवाहविमुच्यमानः क्षेममावहति । (प्रकाशम्) तथैव कान्तया युक्तः स्थिरस्कन्धो भविष्यसि । अन्तरैतद्वियोगान्धकूपान्तस्तेन मा पतः ॥ ७ ॥ विजयेन्द्रः- (सप्रत्यासम् ) अयि ! तां पुनरपि प्राप्स्यत्ययं जनः । तत्त्वप्रपञ्चनः- श्रूयतां गुरुप्रसादाद् यद् यद् अधिगमिष्यसि । गन्तव्यं पुनरेव तत्र शिखरे सैवाभिनन्द्या प्रिया पुत्रस्योर्जितचक्रवर्त्तिपदवीमातन्वतः क्ष्मातले । कर्त्तव्यं वपुषः स्थिरत्वमसमा देविप्रभा सा सती सिद्धिं लब्धवताऽथ पट्टमहिषी कार्या त्वयान्तःपुरे ॥ ८ ॥ Jain Education International ६९ For Private & Personal Use Only (अनुष्टुप्) ( शार्दूलविक्रीडित) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy