SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् [चतुर्थोऽङ्कः कयाऽपि युक्त्या हरभालवह्नौ विक्षिप्य भस्म(स्मी)क्रियतां शशाङ्कः । अस्मादृशं वल्लभविप्रयोगे दुनोति नूनं न पुनर्यथाऽयाम्(यम्) ।। २२ ।। (उपजातिः) अथ चन्द्रिका पाथसि निमज्जन्ती यन्मन्त्रयते तदप्यवधार्यताम् । ज्योत्स्नापूरं न तु कथमलं चञ्चुपात्रैश्चकोराः, पातं विश्वप्रसतमभितः प्रोषितप्लावनाय । कर्मण्यस्मिन् सरसिजभुवा किं न सृष्टाः करीन्द्रा, येषां पानात् सपदि सकलोऽप्येष शोषं प्रयाति ॥ २३ ॥(मन्दाक्रान्ता) (क्षणेन उद्धवविलोकनं नाटयन्ती दुःसहतारकानिकरमवलोक्य) आवर्त्य तारककदम्बमुषर्बुधान्तः सख्यः क्षणात्कुरुत राजतपिण्डपाण्डु । एतानि हालहलपुष्पसहोदराणि । शक्यानि नेक्षितुमपि स्मरकातराभिः ।। २४ ।। (वसन्ततिलका) विचारपरा तु यच्चिन्तयति तदपि श्रयताम् ।। चन्द्रोऽयमेकः क्रियते कथञ्चित् ताराः समस्ता यदि यान्ति नाशम् ।। अमूभिरेकत्वगताभिरिन्दोः कृते द्वितीये क्व नु जीवितव्यम् ।। २५ ।। (उपजातिः) अन्यच्च - राहोर्जडत्वमसमं सखि ! पश्य येन ग्रस्तः सुधानिधिरयं सहसा विमुक्तः । नो चेत् तथैव मुखमध्यमधिष्ठितेऽस्मिन् सन्धानमैष्यदचिरेण कबन्धसन्धिः (धेः) ।। २६ ।। (वसन्ततिलका) विजयेन्द्रः- ईदृश एवायं प्रियविप्रयोगे शशी समुद्वेगपात्रम् । तत्साधु यदमुष्यैवं क्षयमचिन्तयत् प्रिया । ममापि कथ्यताम् कोऽप्युपायो, येन न प्रभवति । (अङ्गुल्या प्रदश्य) लीलावासः कुसुमधनुषो मानिनीमानतन्त्रं यन्त्रं कोपग्रहविरहणे प्रेमसन्धानमन्त्री । निर्गम्योऽयं कथमिव मया वल्लभाविप्रयोगज्वालाजालज्वलितवपुषा रोहिणीप्राणनाथः ।। २७ ॥ (मन्दाक्रान्ता) (सनिःश्वासम्) चन्द्रिके ! एतद्व्यथामपहर्तुं कान्तया स्वहस्त ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy