________________
-२.९६]
बीयं सय W 250 १९५) सुयणो न कुप्पइ चिय अह कुप्पइ मंगुलं न चिंतेइ ।
अह चिंतेइ न जंपइ अह जंपइ लज्जिओ होइ ॥९५॥ W251 १९६) सो अत्थो जो हत्थे तं मित्तं जं निरंतरं वसणे।
तं रुवं जत्थ गुणा तं विन्नाणं जहिं धम्मो ॥९६ः। उप्पाइयदव्वाण वि खलाण को भायणं उत्पादितद्रव्याणामपि स्खलानां को भाजनम् । उच्यते। खलु च्येय, स्खल एव तदीयद्रव्यभाग्भवतीत्यर्थः । अमुमेवार्थम् अर्थान्तरन्यासेन द्रढयति । पिक्काइँ वि निबहलाई नवर काएहि खज्जति पक्वान्यपि निम्बफलानि नूनं काकैरेवोपभुज्यन्ते, इत्यत्र अर्थान्तरन्यासोऽलंकारः । अङ्गं पुनरुत्तरम् । प्रश्नादप्युत्तरं यत्र (रुद्रट,७ ९६) ॥ १९ ॥
१९५) सुचरितस्य । [सुजनो न कुप्यत्येव, अथ कुप्यति पापं न चिन्तयति । अथ चिन्तयति न जल्पति, अथ जल्पति लज्जितो भवति ॥] सुयणो न कुप्पइ चिय सुजनो न कुप्यत्येव । अह कुप्पइ मंगुलं न चिंतेइ अथ कथंचित् कुप्यति पापं न चिन्तयति । अह चिंतेइ न जपइ अथ चिन्तयति न जल्पति, अह जंपइ लज्जिओ होइ अथ जल्पति लज्जितो भवति । मंगुलं पापम् ॥१९५॥
१९६) सज्जनस्य । [सोऽर्थो यो हस्ते तन्मित्रं यन्निरन्तरं व्यसने । तद्रूपं यत्र गुणाः, तद् विज्ञानं यस्मिन् धर्मः ।।] सो अस्थो जो हत्थे सोऽर्थो यो हस्ते । परहस्तगतं व्यसने न प्राप्यत इत्यर्थः । तं मित्तं जं निरंतरं वसणे तन् मित्रं यन्निरन्तरं व्यसने । अन्यदा (? अन्यथा) किं मित्रेणेत्यर्थः । तं रूवं जत्थ गुणा तद्रपं यत्र गुणाः । गुणरहितं रूपं न फलायेत्यर्थः । तं विन्नाणं जहिं धम्मो तद विज्ञानं यत्र धर्मः । धर्मरहितं विज्ञानम् इहामुत्र च शर्मणे न भवतीत्यर्थः । परिसंख्यालंकारः । तस्य लक्षणम् । पृष्टमपृष्टं वा सद् गुणादि यत् कथ्यते क्वचित् तुल्यम् । अन्यत्र तु तभावः प्रतीयते सेति परिसंख्या (रुद्रट, ७.७९) ॥१९६॥
१w. विप्पिअं; २w रूअं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org