________________
2
गाहाको सो
[ २.९७
W252 १९७) चंदमुहि चंदधवला दोहा दीहच्छि तुह विओयम्मि चउजामा सयजाम व्व जामिणी कह वि वोलीणा ॥ ९७॥ W253 १९८) अकुलीणो दोमुहओ ता महुरो भोगणं मुहे जाव । सुरउ व्व खलो जिष्णम्मि भोयणे विरसमारसइ ॥ ९८ ॥ १९७) हालस्य । [ चन्द्रमुखि चन्द्रधवला दीर्घा दोर्घाक्षि तव वियोगे । चतुर्यामा शतयामेव यामिनी कथमप्यतिक्रान्ता ||] कश्चिन्नायको नायिकां प्रति स्वानुरागं प्रकटयितुमिदमाह । हे चंदमुहि चन्द्रमुखि, चंदधवला चन्द्रधवला दहा दीहच्छि दीर्घा दीर्घाक्षि तुह विभयम्मि तव वियोगे, चउजामा जामिणी कह वि वोलीणा चतुर्यामा यामिनी कथमपि कष्टेन अतिक्रान्ता । केव । सयजाम ब्व शतयामेव । चतुर्यामाऽपि त्वद्वियोगेन मम शतयामेव यामिनी भूतेत्यर्थः । लाटानुप्रासो वर्णालंकारः ॥ १९७॥
१९८) रिन्द्रस्य (१ इन्द्रस्य । [ अकुलीनो द्विमुखस्तावन्मधुरो भोजनं यावत् । इलो जीर्णे भोजने विरसमारसति ||] ख़लो दुर्जनः ता महुरो भोयणं मुहे जाव तावन्मधुरो भोजनं मुखे यावत् । भोज्यमान एव मधुरं वक्ति | जिष्णम्मि भोयणे विरसमारसइ जीर्णे भोजने विरसमारसतीति परुषाक्षरं वक्ति । क इव । मुरउ व्व मुरज इव । कीदृशः स्वलो मुरजश्च । अउलीणो अकुलीनोऽनभिज्ञातः । मुरजस्तु कौ पृथिव्यां लीनो न भवति । स हि स्कन्धमारोप्य वाद्यत इति । पुनश्च कीदृशः । दोमुहओ द्विमुखः । खलः प्रियाप्रियवादित्वात्, मुरजस्तु द्विमुख उभयतोऽनुबद्धत्वात् । अयं भोजनं मार्जनापिण्डो मुखे यावत् तावदेव मधुरोऽतिसुखदः । । जीर्णे त्रस्ते च तस्मिन् विरसमारसति कर्णकटु रटतीत्यर्थः । मृदङ्गे भोजनं मार्जनादिपिण्डः । तिस्रो मार्जना भवन्ति मायूरो अर्धमायूरी कामरावेधा (१ कार्मारवी) इति । उपमालंकारः ॥१९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org