________________
-२.८५]
बीयं सयं W235 १८१) विरहे विसं व विसमा अमयमया होइ संगमे अहियं ।
किं विहिणा समय चिय दोहिं पि पिया विणिम्मविया।।८१ लावण्यामृतरसास्वादनलालसा स्थिता । यस्य तु नेत्रोत्पलयोः पतिता तस्य तु तदीयं तरलिमगुणं, तीक्ष्णपक्ष्मलता, निकामकमनीयत्वं कनोनिकयोः, धवलभागभ्राजिष्णुतां, केतकदलद्राधिमाणं, रक्तोत्पलपलाशपाटलापाङ्गतां च पश्यतः तत्रैव स्थिता । यस्य पुनः स्तनकलशयोदृष्टिः पतिता तस्य तदीयं पारिमाण्डल्यं, घनपीनोन्नतत्वगुणं करिकलभकुम्भशोभां च समावयतः तत्रैव स्थिता । यस्य तु तदोयबाहोईष्टिः पतिता तस्व तदीयां शिरोषकुसुमसुकुमारतां चिरं चिन्तयतः तत्रैव स्थिता । यस्व च मध्यदेशे दृष्टिः पतिता तस्यापि प्रतनुलोमलतालावण्यं, नाभिगम्भीरता, त्रिवलीवलयसौभाग्यं च भावयतः तत्रैव स्थिता । यस्य च ऊरुदण्डद्वये दृष्टिः पतिता तस्यापि करिकराकारतां रूपाद्भुतं च पश्यतः तत्रैव स्थिता । यस्य च पादयोः पतिता दृष्टिः तस्यापि तदीयां स्थलकमलकोमलकान्ति नखचन्द्रचन्द्रिकां च चिरं चेतसि चिन्तयतः तत्रैव स्थिता । एवं च यस्य यत्रैव दृष्टिः पतिता तस्य तत्रैव दर्शनसुखस्य अतृप्ता अन्यतो न वलितेति । अत एव सवंगं केण वि न दिटुं सर्वाङ्गं केनापि न दृष्टम् इति । अङ्गम् अङ्गं तस्या रम्यमिति भावः। पर्यायोक्तिरलंकारः ॥१८॥
१८१) आदयराजस्य । विरहे विषमिव विषमा अमृतमया भवति संगमेऽधिकम् । किं विधिना सममेव द्वाभ्यामपि प्रिया विनिर्मिता ॥] विरहे विसं व विसमा पिया विरहे विषमिव विषमा प्रिया, अमयमया होइ संगमे अहियं अमृतमयी भवति संगमेऽधिकम् । किं विहिणा समयं चिय किं विधिना सममेव दोहि पि द्वाभ्यामपि विषामृताभ्यां पिया विणिम्मविया प्रिया विनिर्मिता, तत्कार्यकारित्वात् ताभ्यां संसृष्टेति संभावना । वियोगावियोगौ तस्या मारणजीवनकाविति तात्पर्यार्थः । विणिम्मविया सृष्टा। सामान्यम् (: साम्यम्) अलंकारः ॥१८॥ १ w. समअ चिअ किं विहिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org