________________
६२
गाहाकोसो
[२.३४
W125 १३४) अच्छे व निर्हि 'पित्र सुक्खं सग्गं व अमयपाणं व । आम्हि सो तो विणियंसणसणे तिस्सा ||३४|| W126 १३५) सा तुज्झ वल्लहा तं पिं मज्झ, वेसो सि तोई तुज्झ अहं । बालय फुडं भगामो पिम्मं किर बहुवियारं ति ||३५|| १३४) रामस्य । [आश्चर्यमिव निधिरिव सौख्यं स्वर्ग इव अमृतपानमिव । आसीदस्माकं स मुहूर्तो विनिवसनदर्शने तस्याः ||] विणियंसणदंसणे तिस्सा सो मुहुत्त अम्ह आसि विनिवसनं यद् दर्शनं तस्मिन् सति तस्याः, स मुहूर्ती अस्माकम् आसीत् । किमिव । अच्छेरं व आश्चर्यमिव आश्चर्यजनकत्वात् । किम् एतावदेव नेत्याह । निहिं पिव सुक्खं सग्गं व अमपाणं व निधिरिव सौख्यमिव स्वर्ग इव अमृतपानमिव आसीदिति सर्वत्र प्रयोज्यम् । नियंसणं परिधानवासः । मालोपमालंकारः । मालोपमेति सेय यत्रैकं वस्त्वनेकसामान्यम् । उपमीयेतानेकै रुपमानैरे कसामान्यैः ( रुद्रट, ८, २५) ॥ अच्छेरं आश्चर्यशब्दस्य शय्यादित्वाद ( वररुचि, १,५ ) - तूर्यधैर्यादित्वाद ( वररुचि, ३, १८) र्यस्य रत्वे रूपम् ॥१३४॥
१३५ ) प्रवरसेनस्य । [ सा तव वल्ल्लभा त्वमपि मम, द्वेष्योऽसि तस्यास्तवाहम् । बालक स्फुटं भणामः प्रेम किल बहुविकारमिति ॥ ] काचिदात्मनोऽनुरागेण विपक्षद्वेषोद्घोषेण च नायकं प्रयुक्त्या प्रतिभिनत्ति । - बालक सत्यं भणामः प्रेम किल बहुविकारमिति । तामेव च बहुविकारतां प्रकटयति । सा तुझ वल्लहा तं पि मज्झ सा तव वल्लभा त्वमपि मम चल्लभ इति । वेसो सि तीइ तुज्झ अहं द्वेष्योऽसि तस्यास्त्वं तवाहं द्वेष्येति । बालय इति अभिधेयान्तर ( वैधेय) सम्बोधनम् । रिरंसमानां न रमयसि, अकामयमानां च कामयसे । अतो मूर्ख एव त्वमित्यर्थः । मध्या नायिका । मध्या प्रतिभिनत्तीत्यादि । दीपकालंकारः ॥ १३५ ॥
१. णिहिं मिव; २w. सग्गे रज्जं व; ३w. तं मुहुत्तं; ४w. दंसणं ५w. सि; ६w. तीअ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org