SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गाहाकोलो [२.२५W114 १२५) नच्चणसलाहणासंणिहेण पार्सटिया निउणगोवी । सिरिगोवियाइ चुंबइ कवोलपडिमायं कण्हं ॥२५॥ W115 १२६) सन्यतै दिसामुहपसरिएहि अन्नुन(अन्नन्न) कडयळग्गेहि । __छल्लि व मुयइ विंझो मेहेहि विसंघडतेहिं ॥२६॥ अभिन्नमुखरागं प्रतिदिनसंचीयमानं पुत्रोषु संक्रामति इति । उपमालंकारः । सत्पुरुषप्रशंसापरेयं गाथा ॥१२४॥ १२५) मृगेन्द्रस्य । [नृत्यश्लाघनापदेशेन पार्थस्थिता निपुणगोपी । मुख्यगोपिकायाश्चुम्बति कपोलप्रतिमागतं कृष्णम् ॥] निउणगोवो कवोलपडिमागयं कण्हं चुंबइ निपुणगोपी कपोलप्रतिमागतं कृष्णं चुम्बति । कस्याः। सिरिगोवियाइ मुख्यगोपिकायाः । कथंभूता सा। पासट्ठिया पार्श्वस्थिता तत्पार्श्ववर्तिनी। कथं चुम्बति । नच्चणसलाहणासंणिहेण नृत्यश्लाघापदेशेन । सुललितललितैः पादपातैमनोहरैर्हरिणाक्षि त्वयाऽध साधु नृत्तमित्यभिधाय । गोपीकपोलपालीप्रतिफलितं कृष्णवदनेन्दुबिम्बं चुग्बति । अत एव निपुणेत्युक्तम् । सिरिशब्दो मुख्यपर्यायः । लेशोऽलंकारः॥१२५॥ १२६) गुरथस्य (!)। [सर्वत्र दिङ्मुखप्रसृतैः अन्योन्य (! अन्यान्य)कटकलग्नैः । त्वचमिव मुञ्चति विन्ध्यो मेधैर्विसंघटमानैः ।।] विंझो छल्लि व मुयइ विन्ध्यस्त्वचमिव मुञ्चति । कैः कीदृक्षैः । मेहेहि विसंघडंतेहि मेधैर्विसंघटमानैः । कथंभूतैः । अन्योन्य (? अन्यान्य) कटकलग्नैः । पुनरपि कीदृशैः । सव्वत्त दिसामुहपसरिएहि सर्वत्र दिङ्मुखप्रसृतैः । घटितविघटितैर्घनैर्विन्ध्याख्यः पर्वतः त्वचमिव मुञ्चतीत्यर्थः । ये किल गगनमपि स्वेच्छया प्रच्छादयितुमीशते ते तदीयकटकघटितविघटिताः तनुतरत्वग्रूपतां तन्वन्तीति महत्त्वं युक्त्या विन्ध्याद्रेर्वणितं भवति । कटकः पर्वतैकदेशः । छल्ली त्वक् । उत्प्रेक्षालंकारः ॥१२६॥ १w. सलाहणणिहेण, २w. पासपरिसंठिया, ३w. सरिगोविआण, ४w. सम्वत्थ, ५W. अण्णोण्ण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy