SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ -२.१५] चीयं सय W107 ११४) गोलायडष्टिय पिच्छिकण गहवइसुयं इलियमुन्हा । आढत्ता उत्तरिउं दुक्खुत्ताराऍ पयवीए ॥१४॥ wl06 ११५) जो तीइ अहरराओ रतिं उव्वासिओ पिययमेण । सुच्चिय गोसे दोसइ सवत्तिवयणेसु संकंतो ॥१५॥ ११४) दामोदरस्य । [ गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्नुषा । आरब्धा उत्तरीतुं दुःखोत्तारया पदव्या ॥] दुक्खुत्ताराएँ पयवीए उत्तरिउ आढत्ता दुःखोत्तारया पदव्या उत्तरीतुम् आरब्धवती। किं कृत्वा । पिच्छिऊण दृष्ट्वा । कम् । गहवइसुयं गृहपतिसुतम् । कीदृशम् । गोलायडट्टियं गोदावरीतटस्थितम् । यत् किलासौ सत्यपि सुखाबहे गोदानदीतीरोत्तरणमार्गे मृगेक्षणा विषमेण तटिनीतटेन उत्तरोतुमैच्छत्, तदस्या मामेवमवेक्ष्य अयं ग्रामणोसुतः करावलम्ब करिष्यति, ततोऽहम् एतत्करकमलन्यस्तहस्तस्पर्शामृतम् अनुभविष्यामीति भावः । सुन्हा वधूः । पदवी मार्गः । इङ्गितलक्ष्यः सुक्ष्मालंकारः (काव्यदर्श, २, २६०) ॥११४॥ . ११५) महादेवस्य । [ यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन । स एव प्रभाते दृश्यते सपत्नीवदनेषु संक्रान्तः ॥] जो तीइ अहरराओ रत्तिं पिययमेण उव्वासिओ यस्तस्या अधररागो रात्री उद्वासितः अपनीतः प्रियतमेन, सु च्चिय सवत्तिवयणेषु संकेतो गोसे दीसइ स एवं सपत्नीवदनेषु संक्रान्तो विभातवेलायां दृश्यते इति । तस्या हि निशायां प्रियतमपीतपोतमिति वोतरागमधरं प्रातनिरीक्षमाणा विपक्षवनिता ईर्ष्यारोषेण ताम्रवदनेन्दुबिम्बा बभूवुरित्यर्थः । उत्प्रेक्षालंकारः । तदिवेति तदेवेति तामुस्प्रेक्षां प्रचक्षते (वक्रोक्तिजीवित, ३, २६)। अयमेवोत्प्रेक्षाध्वनिः ध्वनिकारमतेन । श्रीभोजदेवमते तु व्यत्ययवत्यमुख्या परिवृत्तिरियम् । व्यत्ययो वस्तुनोर्यस्तु यो वा विनिमयो मिथः । तवयेनोभयवती निर्दिष्टा काव्यसुरिभिः (सरस्वतोकण्ठाभरण ३, २९-३०) ॥ त्रिधापि चासो मुख्यामुख्यभेदाद द्विधा पुनः ॥११५॥ १w. सोण्हा; २w. दीला गोसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy