SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५२ गाहाको सो [२. १२ W104 ११२) निष्पच्छिमाइँ असई दुक्खालोयाइँ महुयपुरका । चीए बन्धुस्स व अट्टियाइँ रुईरी समुच्चेई ॥१२॥ W105 ११३) हे हियय मडहसरियाजलरयहीरंत दोहदारु व्व । ठाणे ठाणि च्चिय लग्गमाण केणावि उज्झि हिसि ॥ १३॥ ११२) महाइयस्स । [निष्पश्चिमानि असती दुःखालोकानि मधूकपुष्पाणि । चितायां बन्धोरिवास्थीनि रोदनशीला समुच्चिनोति ॥ ] असती मधूकपुष्पाणि समुच्चिनोति । कथंभूतानि । निष्पच्छिमाइँ निष्पश्विमानि अन्त्यानि । अत एव दुक्खालोयाइँ दुःखदायित्वाद् दुःखः आलोको दर्शनं येषां तानि दुःखालोकानि । कीदृशी । रुइरी रोदनशोला । कस्यां कस्य कानीव । चीए बन्धुस्स अट्टियाइँ व चितायां बन्धोरिक अस्थीनि दुःखदर्शनीयानि भवन्ति । अद्यैव खलु मम भग्नमनोरथायाः प्रियजनसंकेत संगमावसरः इति सबाष्पं पुष्पाव चयेन असतीभाव आविष्कृतः इति । निप्पच्छिमाइँ यतो अन्यानि पश्चिमानि न सन्तीति । असती स्वैरिणी । चीए इति सामान्यभाषाश्रयेण शब्दप्रयोगः । लोकः किल चीयशब्देन चितामाह । तद्भवतत्समदेशी सामान्यभाषाश्रयेण चतुर्विधं प्राकृतं पूर्वाचार्याः स्मरन्तीति । भावोपमाभ्यां संकीर्णोऽलंकारः ॥ ११२ ॥ ११३) श्रीधर्मिलस्य । [हे हृदय तनुतरसरिज्जलरयहियमाणदीर्घदारु इव । स्थाने स्थान एव लगत् केनापि घक्ष्यसे ||] काचित् क्वचित् असदृशप्रेम्णि पुरुषे अनुरज्य पुरुषान्तरं कामयमाना स्वहृदये सखेदमि - दमाह । हे ठाणे ठाणि च्चिय लग्गमाण स्थाने स्थान एवं स्थितिं कुर्वत् । केणावि उज्झिहिसि केनापि दासे (? धक्ष्य से ) । किमिव । मडहसरियाजलर हीरं तदीहदारु व्व तनुतरसरिज्जलरयहियमाणदीर्घदारु इव । यथा किल तनुतरतरङ्गिणीरयहृतं स्थाने स्थाने संश्लिष्टं दीर्घकाष्ठमाकृष्य केनापि दह्यते तथा त्वमपि पुरुषं पुरुषं प्रति स्नेहानुबन्धबुद्धिमात्मनः ( कुर्वत्) केनापि दुर्विदग्धेन लक्षसंपातिरेकं (?) नेष्यस इत्यर्थः । मडहं तुच्छम् । ठाणं स्थानम् । उपमालंकारः ॥११३॥ १. रुअरी; २w. समुच्चिणइ, ३w. ओ हिअअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy