________________
४८ गाहाकोसो
२. ३W100 १०३) दुक्ख दितो वि सुहं जणेइ जो जस्स वल्लहो होइ ।
दइयणहमियाण वि वड्ढइ थणयाण रोमंचो ॥३॥ - W191 १०४) चिरिडि पि अयाणंता लोया लोएहि गारवग्धविया ।
मुण्णारेतुल व्य निरक्खरा वि खंधेण वुझंति ॥४॥ हिययलग्गं अन्योन्यहृदयलग्नम् । एवंभूतं पतिं धन्या प्राप्नोति, अहं पुनरधन्या यन्नेदृशं पति प्राप्तेत्यर्थः ॥१०२॥ - १०३) धर्मणस्य । [दुःख दददपि सुखं जनयति यो यस्य वल्लभो भवति । दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः ॥] जो जस्स वल्लहो होइ यो यस्य वल्लभो भवति स तस्य दुक्खं दितो वि सुहं जणेइ दुःख ददपि सुख जनयति । अमुमेव चार्थम् अर्थान्तरन्यासेन समर्थयति । दइयणहदूमियाण वि वड्ढइ थणयाण रोमंचो दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः । रोमाञ्चस्थायी हर्षोद्भवो भावः स दयितनखदूनयोरपि स्तनयोदृश्यते इति प्रकृतार्थसमर्थनम् । बहुसुखसाधनं न स्वल्पदुःखमपि दुःखं करोति यथा स्वर्गाप्तिहेतुकयागे छागादिवधमात्रं, यथा वा प्रचुरफलाभिलाषुकाणामपि अल्पबीजवपनव्ययो न दुःखाय जायते तथेदमपीत्यर्थः । दूमियं पीडितम् ॥१०३॥
१०४) नरनाथस्य । [ओष्ठस्फुरणमप्य जानन्तो लोका लोकैौरवार्षिताः । स्वर्णकारतुलेव निरक्षरा अपि स्कन्धे नोह्यन्ते ॥] लोया लोएहि खंधेण वुझंति लोका लोकैः स्कन्धेनोह्यन्ते गौरवेण दृश्यन्त इत्यर्थः । गारवग्घविया गुरुतया महार्घता नीताः । पुनः कीदृशाः । चिरिडि पि अयाणंता ओष्ठस्फुरणेऽप्यनभिज्ञाः । दूरे वाग्मिता तावदित्यर्थः । सुण्णारतुल व्व निरक्स्वरा वि स्वर्णकारतुलेव निरक्षरा अपि । स्वर्णकारतुला यथा निरक्षराऽपि स्कन्धेनोह्यते तथा तेऽपीत्यर्थः । चिरिडिं ओष्ठस्फुरणम् । अक्षरं (? अक्षराणि) चात्र वर्णाः अन्यत्र परिमाणालेख्याक्षराणि । उपमालंकारः ॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org