________________
-१.९८] - पढमं सयं W95 ९७) सो नाम संभरिज्जइ पम्हसइ खणं पि जो हु हिययाहि ।
संभरियव्वं च कयं गयं च पिम्मं निरालंबं ॥१७॥ N96 ९८) नासं व सा कबोले अज्ज वि तुह दंतमंडलं बाला ।
उभिन्नपुलयवइवेढपरियरं रक्खइ वराई ॥९८॥ धयति । यं च मुञ्चति स शून्यो भवति । सुजनप्रशंसा । इयमपि उपमापर्यायोक्तिसंसृष्टिरलंकारः ॥९॥
९७) फरकुन्तस्य । [स नाम संस्मर्यते प्रवसति क्षणमपि यः खलु हृदयात् । संस्मतव्यं च कृतं गतं च प्रेम निरालम्बम् ॥ ] काचित् प्रवासप्रत्यावृत्तेन कान्तेन, मामनुस्मरन्ती भवती स्थिता उत नेति पृष्टा सतीदमाह । सो नाम संभरिज्जइ स नाम संस्मर्यते पम्हुसइ खणं पि जो हु हिययाहि प्रवसति क्षणमपि यः खलु हृदयात् । संभरियवं च कयं गयं च पिम्मं निरालंबं संस्मर्तव्यं च कृतं गतं च प्रेम निरालम्बम् । संभरियव्वं इति भावसाधनम् । त्वं तु मम हृदये सर्वदा वससीति स्मरणम् अनुपपन्नम् । प्रेयःसमुच्चयाभ्यां संसृष्टिरलंकारः ॥९७॥ . ९८) वाक्पतिराजस्य । [न्यासमिव सा कपोले अद्यापि तव दन्तमण्डलं बाला । उद्भिन्नपुलकवृतिवेष्टनपरिकरं रक्षति वराकी ॥] काचित् स्वसख्याः नायकस्य पुरतः प्रेमातिशयं भङ्गया अभिधातुमाह । सा बाला वराई अज्ज वि तुह दंतमंडलं कवोले रक्खइ सा बाला वराकी अद्यापि त्वया दत्तं दन्तवणं कपोले रक्षति । कमिव । न्यासमिव निक्षेपमिव । कथंभूतम् । उब्भिन्नपुलयवइवेढपरियरं उद्भिन्नपुलकवृतिनेष्टनपरिकरम् । यत् किल रक्षणीयं तत् कण्टकादिभिः परिवार्यत इति । अत एव च रोमाञ्चनिचितगण्डमण्डलतया तस्मिन् यूनि रागातिरेकः प्रकाशितः । इत्थंभूतायाम् अपि तस्यां त्वं शिथिलादर इति वराकीपदेन प्रकटितम् । दन्तमण्डलमिह अर्थाद् दन्तक्षतमेव । पुलकः सात्त्विको भावः । १ w. पन्भसिओ जो खणं पि. २w. परिगयं;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org