SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ -१.६१] पढम सयं W58 ६०) अज्जं चेव पउत्थो उज्जग्गिरओ' जणस्स अज्जेय । अज्जेय हलद्दीपिंजराइँ गोलाइ तुहाई ॥६०॥ W59 ६१) असरिसचित्ते दियरे सुद्धमणा पिययमे विसमसीले । न कहइ कुटुंबविहडणभएण तणुयायए वहुया ॥६१॥ ६०) ग्रहलचितस्य । [अद्यैव प्रोषित उज्जागरो जनस्य अथैव । अद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तीर्थानि ॥] काचिद् वियोगिनी वल्लभस्य वीरविलासी व्यपदेशेन वर्णयितुम् इदमाह । सोऽस्माकं हृदयदयितः अजं चेव पउत्थो अद्यैव प्रोषितः । अज्जेय जणस्स उज्जग्गिरमो जाओ अद्यैव जनस्य उज्जागरको जातः । एतदुक्तं भवति । तस्मिस्तिष्ठति अपसारितचौरभये यूनि जनाः सुखेन शेरते स्म । अद्य च कृतगमने तत्र प्रचुरतरतस्करत्रासेन समस्तवास्तव्यानां यामिनीयामजागरणमिति । अज्जेय हलदीपिंजराइँ गोलाइ तुहाई अधैव हरिद्रापिञ्जराणि गोदावरीतटानि जातानि । अत्र च योऽनुरागो जितहरिद्रापिङ्गिमा गोदावर्याः, तेन च वनितानाम् अङ्गरागपरित्यागेन सौभाग्यभङ्गीभणितिराविष्कृता इति पूर्वार्द्ध वीरः, उत्तराद्धे विलासोक्तिः । गोला गोदावरी । तूहं तटम् । हलद्दी इति हरिद्रा । अत् पथिहरिद्रापृथिवीषु (वररुचि,१.१३) इत्यनेन इकारस्य अत्वम् । रेफस्य लत्वे च रूपमिदम् । पर्यायोक्तिरलंकारः । तस्य लक्षणम् । अर्थमिष्टमनाख्याय साक्षात् तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोकिस्तदिष्यते ।। (काव्यादर्श, २.२९५). ६१) असद्धस्य [)। [असदृशचित्ते देवरे शुद्धमनाः प्रियतमे विषमशीले । न कथयति कुटुम्बविघटनभयेन तनूयते वधूः ॥] वहुया वधूः । असरिसचित्ते दियरे पिययमे विसमसीले न कहइ असदृशचित्ते देवरे, प्रियतमे विषमशीले न कथयति न निवेदयति, अर्थाद् देवरस्य दुरीहितम् इति लभ्यते । केन हेतुना । कुडंबविहडणभएण कुटुम्बविघ१ w. उज्जागरओ; २ w. हलिद्दा; ३ w. सोण्हा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy