SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४४ गाहाकोसो [६.६२ मार W550 ५६२) वोडेसुणयं विवन्नं अत्तं मत्तं पहेणयमुराए । फलियं च मोडियं महिसरण को तस्स साहिज्ज ॥६२॥ W577 ५६३) चोरा समयसयण्हा पुणो पुणो पेसयंति दिट्ठीओ। अहिरक्खियणिहिकलस व्व पंक्कवइयाथणुच्छंगे ॥६३।। ५६२) अन्घ्रलक्ष्म्याः । [दुष्टश्वान विपन्नं श्वश्रू मत्ताम् उत्सवसुरया । द्वारपिधानं च मोटितं महिषेण कस्तस्य कथयेत् ।। ] को तस्स साहिज्ज कस्तस्य कथयेत् । किं तदित्याह । वोडसुणयं विवन्नं वोडाभिधानं श्वानं विपन्नम् । किमेतावदेव । नेत्याह । अत्तं मत्तं पहेणयसुराए अत्तां (श्वश्रृं) मत्तामुत्सवसुरया । फलियं च मोडिअं महिसएण फलिहकं (१ परिघं) च मदितं महिषेणेति कस्तस्य कथयेत् । एतदुक्तं भवति । प्रतिबन्धवन्ध्यं मद्गृहं वर्तते, तदागम्यतामिति । अत्ता मत्ता (? अत्ता श्वश्रः)। पहेणयं यदुत्सदिने गृहे गृहे दीयते । फलियं द्वारे दारुमयं पिधानम् । भावोलंकारो रुद्रटमतेन (रुद्रट,७,३७) । ध्वनिकारमतेन तु विवक्षितान्यपरवाच्यप्रभेदस्यालक्ष्यक्रमस्य अर्थशक्त्यनुरणनरूपव्यापारव्यङ्ग्यो ध्वनिप्रभेदः । असती अन्योढा नायिका ॥५६२॥ ५६३) कलिङ्गस्य । चोराः सभयततृष्णाः पुनः पुनः प्रेषयन्ति दृष्टोः । अहिरक्षितनिधिकलश इव समर्थपतिकास्तनोत्सङ्गे ।।] चोरा पुणो पुणो दिदीओ पेसयन्ति चोराः पुनः पुनर्दृष्टीः प्रेषयन्ति । क । पक्कवइयाथणुच्छंगे समर्थपतिकास्तनोत्सङ्गे । कीदृशोदृष्टीः । समयसयहा सभयसतृष्णाः । कस्मिन्निव । अहिरक्खियणिहि कलस व अहिना सण रक्षिते निधिकलश इव । यथा हि भुजङ्गरक्षिते निधिकलशे सभयप्ताभिलाषा दृष्टिर्निपतति तथा समर्थपतिकापयोधरोत्सङ्गे दस्यूनां दृष्टिर्निपततीत्यर्थः । पक्को समर्थः । रतिभययोः स्थायिभावयोः संकरोऽत्र । उपमाऽलंकारः ॥५६३॥ १w.वोडसुणओ विवण्णो अत्ता मत्ता पई वि अण्णत्थो। फडई वि मोडिया महिसएण को कस्स साहेउ. २w. सभअसतण्हं; ३w. पोढवइआ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy