________________
२३४
गाहासो
[६.३५
W506 ५३५) तुह दंसणसत्तण्डा सदं सोऊण निग्गया जाई । ती तर बोलीने पयाइँ वोढव्वया जाया ॥ ३५॥ W743 ५३६) भिउडीएं पुलोइस्सं निव्भच्छिस्सं परंमुही हुस्सं । जं भणह तं करिस्सं सहोओ जइ तं न पिच्छिस्सं ॥ ३६॥
५३५ ) प्रवरसेनस्य । [तव दर्शनसतृष्णा शब्दं श्रुत्वा निर्गता यानि । तानि त्वय्यतिक्रान्ते पदानि वोढव्या जाता ||] काचित् कस्याश्चिन्नायकस्यानुरागं युक्त्या वक्तुमिदमाह । तुह सद्दं सोऊण तव शब्द श्रुत्वा दंसणसत्तण्डा दर्शनसतृष्णा सती जाईं पयाईं निग्गया यानि पदानि वेश्मनो बहिर्निर्गता ताई तड़ बोलीणे तानि पदानि त्वयि गते सति वोढव्वया जाया वोढव्या वहनीया जाता । तानि पदानि साऽन्येनानीयतेति भावः । जडना व्यभिचारी भावः । सत्तण्हा इति सेवादिगणपाठाद् द्वित्वम् ||५३५॥
५३६) अन्ध्रक्ष्याः । [ भ्रुकुट्या प्रलोकयिष्यामि निर्भर्त्सयिष्यामि पराङ्मुखी भविष्यामि । यद् भणथ तत्करिष्यामि सख्यो यदि तं न द्रक्ष्यामि ||] काचित् कृतापराधे प्रिये 'त्वया एवमेवं कर्तव्यम्' इति स्वसख्याऽभिहिता सती इदमाह । हे सहीओ सख्यः, जं भणह तं करिस्सं यद् भणथ तत् करिष्यामि जइ तं न पिच्छिस्सं यदि तं न प्रेक्षिष्ये । किं तद् यत् करिष्यसीत्याह । भिउडीऍ पुलोइस्र्स भ्रुकुट्या प्रलोकयियामि, निव्भच्छिरसं निर्भर्त्सयिष्यामि, परंमुही हुस्सं पराङमुखी भविव्यामि । तस्मिन् पुनरवलोकिते तदर्शनहृतहृदया भ्रूभङ्गनिर्भर्सन पृष्ठदानादिकं कर्तु न शक्नोमीति । उत्तरालंकारः । तस्य लक्षणम् - उत्तरवचनश्रवणाद् इत्यादि ( रुद्रट, ७, ९३ ) ॥५३६॥
१w. दंसणे सतण्हा; २. तइ वोलणे ताई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org