________________
२२४.
गाहाकोसो
[६.११
W610 ५११) जइ जूरइ जुरउ नाम मामि परलोयवसणिओ लोभो । तह वि बला गोमणिउत्तवयणकमले वलइ दिट्ठी ॥ ११ ॥ W611 ५१२) धोयें व चित्तयम्मं उज्झरकुहरं व सलिलसुन्नइयं । गोहरहियं गुद्धं व तीऍ वयणं तुइ विओए ॥ १२ ॥
५११) विन्ध्याधिपस्य । [ यदि खिद्यते विद्यतां नाम सखि परलोकव्यसनी लोकः । तथाऽपि बलाद् प्रामणीपुत्रवदनकमले बलते दृष्टिः ||] हे मामि मातः (? मातुलानि), लोओ जइ जूरइ जूरउ नाम लोको यदि खिद्यते विद्यतां नाम । कीदृशः । परलोयवसणिओ धार्मिकः । तह वि बला गामणिउत्तवयणकमळे वलइ दिट्ठी तथाऽपि बलाद् ग्रामणीपुत्रवदन-कमले वलते दृष्टिः । तदेव दृष्टिवृत्तिहेतुश्चित्तोल्लासो हेला, सा च पुंसोऽपि भवति । हेला भावश्व हावश्च व्याजो विस्रम्भभाषणम् । चाटु प्रेमानुसन्धानं परीहासः कुतूहलम् । चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद् विलासिनाम् || मामि इति मातुलानि, सखि च । जूग्इ इति खिदेर्जूर इति जुरादेशे रूपम् ॥५११ ॥
५१२) अरदेवस्य । [ धौतमिव चित्रकर्म निर्झरकुहरमिव सलिलशून्यम् । गोधनरहितं गोष्ठमिव तस्या वदनं तव वियोगे ||] काचित् कस्याश्चिद् विरहदुरवस्थां प्रतिपादयितुमाह । तीए वयणं तस्या वदनं तुह विमोए तब वियोगे धोयं व चित्तयम्मं धौतमिव चित्रकर्मकार्यम्, अञ्जनपत्रलेखावर रागादिरहितमित्यर्थः । धौतं हि चित्रकर्म व्यपेतवर्णकं भवति । पुनरपि कीदृशम् । उज्झरकुहरं व सलिलसुन्नइयं निर्झरकुहरमिव सलिलशून्यम् । विच्छायमित्यर्थः । शुष्कौष्ठगलकतालुकमित्यपरे । भूयश्च कीदृशम् । गोहणरहियं गुठं व गोधनरहितं गोष्ठमिव । निःशब्दमित्यर्थः । सशब्दं हि अनेकगोधनध्वनिमनोहरम् । अन्ये तु शोभनशुन्यत्वमात्रमेव प्रतीयमानं सामान्यधर्ममाश्रित्य उपमा अत्र इयमित्याहुः ॥ ५१२॥ १w. गामणिणंदणस्स वअणे; २w. गेहं व वित्तरहियं ३w. णिज्झर०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org