________________
१४
गाहाकोसो
[१.२९
W188 २९) नेउरकोडि विलग्गं चिहुरं दइयस्स पायवडियस्स ।
हियय माणपउत्थं ओमोयति च्चिय कहेइ ॥२९॥ W194 ३०) सा तइ सहत्थदिन्नं अज्ज वि ओ सुहय गंधरहियं पि ।
उव्वसियणयरघरदेवय व्व ओमालियं वहइ ॥३०॥ सक्तो न कस्यापि लोचनगोचरं गच्छसि । निम्ब कीटकसदृशो निम्बकीटककल्पस्त्वं यत् तस्यामपि निकृष्टरामामां रमस इति सपत्नीदोषोद्घोषणम् । यद्यपि त्वमीदृशः तह वि तथापि गामो तुज्झ कए ग्रामस्त्वदर्थ तणुयाइ तनूयते । ग्रामशब्देनात्मानं व्यपदिशति । अहं त्वद्वियोगदुःखेन इमामवस्थां प्राप्तेति तात्पर्यार्थः । ग्रामणी मनायकः । विशेषोक्तिरलंकारः। गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् । विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ (काव्यादर्श, २. २२३)। अन्योढा नायिका । अन्योढापि हि. कन्या कर्तव्यं सर्वमुद्गतं कुरुते । दुरवस्थापि च तं तु स्वयमभियुङ्क्ते स्मरावेशात् ॥ (रुद्रट, १२ ३६-३८) ॥२८॥
२९) हरिराजस्य । [नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य । हृदयं प्रोषितमानम् उन्मोचयन्त्येव कथयति ॥] काचिन्नायिका पायवडियस्स पइणो (दइयस्स!) पादपतितस्य पत्युः दयितस्य नेउरकोडिविलग्गं चिहुरं नूपुरकोटिश्लिष्टं चिकुरं ओमोयति च्चिय उन्मोचयन्त्येव हिययं माणपउत्थं कहेइ हृदयं प्रोषितमानं कथयति । मा खल्वयं केशाकुञ्चनव्यथाम् अनुभवतु, कथं केशान् मोचयेदिति प्रसन्ना अहम् इति कथयितुं तुलाकोटिकोटिश्लिष्टान् कलया कुन्तलान् श्लयथतीति भावः । प्रत्यावृत्तहृदया पत्युः मानावसानम् आविष्करोतीत्यर्थः । माणपउत्थं इति प्राकृते पूर्वनिपातानियमः । अनुमानालंकारः ॥२९॥
३०) अनुपरसस्य । [सा त्वया स्वहस्तदत्तम् अद्यापि हे सुभग गन्धरहितमपि । उद्वासितनगरगृहदेवतेव अवमालिकां वहति ॥] काचित् १w उम्मोअंति चिअ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org