SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [-५.९० पंचमं संयं २१५ W609 ४८९) गम्मिहिसि तस्स पासं सुंदरि मा तुवर वड्ढउ मियंको। दुद्धे दुद्धं पिव चंदिमाइ को पिच्छइ मुहं ते ॥८९।। W534 ४९०) सरसा वि सूसइ रिचय जाणा दुक्खाइँ मूढहियया वि । स्त्ता वि पंडुर च्चिय जाया बरई तह वियोए ॥९॥ ४८९) जयन्तकुमारस्य । [ गमिष्यसि तस्य पार्श्व, सुन्दरि मा स्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥] काचित् कांचित् स्वमुखेन्दुद्योतितदिङ्मुखीं प्रियमभिसरन्तोमिदमाह । गमिष्यसि तस्य पाश्व सुन्दरि मा त्वरस्व मा उत्सुका भव । वर्धतां नभोभागमाक्रमतां तावन्मृगाङ्कः । ततः किमित्याह । दुद्धे दुद्धं पिव चंदिमाइ को पिच्छइ मुहं ते दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते । न कश्चिदित्यर्थः । यथा दुग्धे दुग्धं निक्षिप्तं तथा चन्द्रिकायां वर्णसावात् त्वन्मुखमपि न लक्ष्यते, इति प्रियाभिसरण कारणं कौमुदी भविष्यतीति भावः । तन्मुखेन्दुकान्तिकीर्तनपरेयमुक्तिः । आक्षेपोऽयमलंकारः ॥४८९॥ १९०) जीवदेवस्य । [ सरसाऽपि शुष्यत्येव, जानाति दुःखानि मूढहृदयाऽपि । रक्ताऽपि पाण्डुरैव जाता वराकी तव वियोगे !!] काचित् कस्याश्चिन्नायके रागातिशयं प्रकाशयितुमिदमाह । सा वरई वराकी तुह वियोए तव वियोगे सरसा वि सूसइ च्चिय सरसाऽपि शुष्यत्येव । या किल रसाः भवति सा न शुष्यतीति । जाणइ दुक्खाइँ मूढहियया वि जानाति दुःखानि मूढहृदयाऽपि । या किल मूढहृदया सा दुःखं न जानाति। रत्ता वि पंडुर च्चिय रक्ताऽपि पाण्डुरैव । या किल रक्तवर्णा सा पाण्डुरा न भवतीति विरोधः। तत्त्वतस्तु अविरोधः । सा त्वविरहे सरसा सानुरागा शुष्यति । मूढहृदया मोहान्वितचित्ता त्वद्विरहवेदनां वेत्ति । रक्ता अनुरक्ता पाण्डिम्ना गृहीता । इति तदवस्थानिवेदनपरेयमुक्तिः । विरोधोऽलंकारः ॥४९॥ 1w. चंदिआइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy