SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९० गाहाकोसो W427 ४२७) तुंगाण विसेसणिरंतराण सरसवणबद्धसोहाणं । कयक जाण भडाण व थणाण पडणं पि रमणिज्जं ||२७|| W428 ४२८) परिमेलियसुहा गरुया अलद्धविवरा सलक्खणाहरणा । थणया कव्वाला व्व कस्स हियए न लग्गति ॥ २८ ॥ वामनवेषेण तदनु च विजृम्भमाणेन विश्वं व्याप्नुवता बलिबन्धः कृतः, तथाऽनेन (स्तनयुगलेन) इत्यर्थः । एकत्र वलिशब्द उदरलेखावाची, अन्यत्र वैरोचनवचनः । श्लेषोपमाऽलंकारः ||४२६॥ ४२७) स्फुटिकस्य । [तुङ्गानां विशेषनिरन्तराणां सरसव्रणबद्ध - शोभानाम् । कृतकार्याणां भटानामिव स्तनानां पतनमपि रमणीयम् ||] स्तनानां पतनमपि रमणीयम् । केषामिव । भडाणं व भटानामिव । स्तनानां तावत् किंभूतानाम् । तुंगाण तुङ्गानाम् उन्नतानाम् । विसेसनिरंतरण विशेषेण निरन्तराणाम् । सरसवणबद्धसोहाणं सरसव्रणैर्नस्वदशनपदैः बद्धा शोभा यैः तेषां तथोक्तानाम् । कयकज्जाण कृतं कार्यं " युवजनावर्जनलक्षणं यैः तेषां कृतकार्याणाम् । भटानां च कीदृशानाम् । तुङ्गानां महाशयानाम् । विशेषेण निरन्तरा निर्भेदा ये तेषाम् । सरसव्रणैर्निशितशरशक्तिप्रासपट्टिशानां प्रहारैर्बद्धा शोभा येषां तेषाम् । कृतकार्याणां संपादितस्वस्वामिप्रयोजनानाम् । पतनमपि रमणीयमित्यर्थः । श्लेषोपमालंकारः ॥४२७॥ [५.२७ ४२८) तस्यैव (स्फुटिकस्य ) | [ परिमृदितसुखा गुरवो अलब्धविवराः स्व ( स ) लक्षणाभरणाः । स्तनाः काव्यालापा इव कस्य हृदये न लगन्ति ।। ] स्तनाः कस्य हृदये न लगन्ति चित्तं नारोहन्ति । के इव कव्वालाय व्व काव्यालापा इव । स्तनास्तावत् कीदृशाः । परिमलियसुहा परिमर्दितसुखाः परिमर्दनेन सुखदायिन इत्यर्थः । सलक्खणाहरणा स्वकीयं यत् लक्षणं सामुद्रिकोक्तं तदेवाभरणं येषां ते तथोक्ताः । काव्यालापा अपि परिमलितशुभाः (परिभृदितशुभाः) क्षोदक्षमाः, गुरवों गुणान्विताः, १w. परिमलणसुहा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy