________________
१८४
गाहाकोसो
[५ १२W400 ४१२) भण को न रूसइ च्चिय पत्थिज्जतो अएसयालम्मि ।
रइकावडा रुयंतं पियं पि पुत्तं सवइ माया ॥१२॥ W401 ४१३) मुप्पउ तइओ वि गो जामु नि सहीउ कीस में भणह।
- सेहालियाण गंधो न देइ मुत्तुं सुयह तुम्हे ॥१३॥ W396 ४१४) रायविरुद्धं व कहं पहिओ पहियस्स साहइ ससंको।
जत्तो अंबाण फैलं तत्तो दरणिग्गयं किं पि ॥१४॥ मपि धर्मक्लमं गणयतीत्यर्थः । पवहो इति प्रवाहः, यथादिपाठात् (वररुचि १,१०) ह्रस्वत्वम् । हेतुरलंकारः ॥४११।।
___४१२) मङ्गलकलशस्य । [भण को न रुष्यत्येव प्रार्थ्यमानोऽदेशकाले । रतिव्यापृता रुदन्तं प्रियमपि पुत्रं शपति माता ।।] भण को न रुष्यत्येव । किं क्रियमाणः । पत्थिज्जता अभ्यर्थ्यमानः । किं सर्वदा । नेत्याह । अएसयालम्मि अदेशकाले. अदेशे अकाले च । अमुमेवार्थ समर्थयन्नाह । रइवावडा रुयंत पियं पि पुत्तं सवइ माया रतिव्यापृता रुदन्तं प्रियमपि पुत्रं शपति माता । सर्वमेव देशकाले सुखावह मित्यर्थः । अर्थान्तस्यासोऽलंकारः ॥४१२॥
४१३) महोदधेः । [सुप्यतां तृतीयोऽपि गतो याम इति सख्यः कस्मान्मां भणथ । शेफालिकानां गन्धो न ददाति स्वप्तुं, स्वपित यूयम् ॥] हे सहीउ सख्यः सुप्पउ तइओ वि गओ जामु त्ति सुप्यतां तृतीयोऽपि गतो यामः प्रहर इति कीस मं भणह कस्मान्मा भणथ । यत. सेहालियाण गंधो न देइ सुत्तुं शेफालिकानां गन्धो न ददाति स्वस्तुं, सुयह तुम्हे स्वपित यूयम् । अनेन शेफालिकापरिमलेन उद्दीपनविभावेन अधिकं मम मनसिजो विजृम्भित इति भावः । हेतुरलंकारः ॥४१३॥ - ४१४) नोलस्य । [राजविरुद्धामिव कथां पथिकः पथिकस्य कथयति सशङ्कः । यत आम्राणां फलं तत ईषन्निर्गत किमपि ॥] पहिलो पहियस्स . १w.जणो, २w. स्वंतं. ३w. संक; ४w. दलं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org