________________
१६८ गाहाकोसो
[४.७५W176 ३७५) वाएरियस्स भरियं अच्छि कंड्यउप्पलरयस्स। .
फूमित्तविसुद्धं चुंबमाण को होसि देवाणं ॥७॥ W179 ३७६) तीऍ मुहाउ तुह मुहं तुज्झ मुहाओ वि मज्य चैरणेसु । .
हत्थाहत्थिमुवगओ अइदुक्करयारओ तिलओ ॥७६॥ - ३७५) व्याघ्रस्वामिनः । [वातेरितस्य पूर्णम् अक्षि कण्डूकृदुत्पलरजसः । फूत्कारमात्रविशुद्धं चुम्बमान को भवसि देवानाम् ॥] हे अच्छि चुंबमाण को होसि देवाणं अक्षि चुम्बमान को भवसि देवानाम् । कोहशम् अक्षि । वाएरियस्स कंडूय उप्पलरयस्स भरियं वातेरितस्य कण्डूकदुत्पलरजसो भृतं पूर्णम् । पुनश्च कीदृशम् । मित्तविसुद्धं फूत्कारमात्रबिशुद्धम् । फूत्कारमारुतमात्रविशुद्धस्यापि चक्षुषः चुम्बनेन मम मनोगतं भावम् उद्भाव्य तथैवाचरन् देवानां मध्ये कोऽपि भवसीति भावः । कंडूयउप्पलरयस्स इति पूर्णार्थयोगे. तृतीयार्थे षष्ठी। अन्ये तु कंडमं इति पठन्ति व्याचक्षते च । कीदृशम् अक्षि । कंडूमदिति । पृष्ठाक्षिकुक्षिप्रस्तावा () स्त्रियामिति स्त्रियां कंडम इति भवति ॥३७५।।
३७६) अन्ध्रलक्ष्म्याः । [तस्य मुखात्तव मुखं तव मुखादपि मम चरणयोः । हस्ताहस्तिमुपगतो अतिदुष्करकारकस्तिलकः॥] काचित् सिन्दूरेण प्रियं तिलकितं वीक्ष्य सप्रतिभेदमिदमाह । मइदुक्करयारओ तिलओ अतिदुष्करकारकस्तिलकः तीएँ मुहाउ तव मुहं तस्या मुखात्तव मुखं, तुज्झ मुहाओ वि मज्झ चरणेसु तव मुखादपि मम चरणयोः, हत्थाहत्थिमुवगओ हस्ताहस्तिमुपगतः । एतदुक्तं भवति । तद्वदनचुम्बनेन त्वन्मुखे संक्रान्तः पादपातक्रमेण च मच्चरणयोः संक्रान्तः, एवं तिलकः अतिदुष्करकारक इति तिलकनिर्भर्त्सन (प्रशंसा) मुखेन नायकनिकारः कृतो भवति, इति । त्वं किल तदनुरक्तो मयि पुनर्मिथ्यानुनयमेव दर्शयसीत्यर्थः । हत्थाहत्थि इति लोकोक्तिः । पर्यायोक्तिलंकारः । खण्डिता स्वोया प्रगल्मा नायिका । विप्रलम्भमेदो मानोऽयम् ॥३७६ ॥ १w. वाएरिएण. २w. मुहाहि; ३w. चलणम्मि; ४w. हत्थाहत्थीअ गओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org