________________
गाहाकोझो
[१.१६W18 १६) दुग्गयकुडुंबयड्ढी कह नु :मए धोविएण सोढव्वा।।
दसिओसरंतसलिलेण उयह रुन्नं व पडएण ॥१६॥ W19 १७) कोसंबकिसलवण्णय तण्णय उन्नामिएहि कण्णेहि ।
हियइच्छियं घरं वच्चमाण धवलत्तणं पाव ॥१७॥ अयं कुप्पिज्ज अहं चिरागमनदोषेण तस्मै कुप्येयम् । सो वि अणुणिज्ज सोऽपि मामनुनयेत् “प्रिये क्षमस्वेदं मे दूषणम्" इति । इय कस्स वि फलइ मणोरहाण माला पिययमम्मि इति कस्यापि पुण्यात्मनो मनोरथानां माला फलति निष्पद्यते, न पुनरपुण्यानां मादृशोनामिति । एइहिइ आगमिष्यति । चिन्ता संचारी भावः । स्वीया नायिका ॥१५॥
१६) श्रीवर्मणस्य । दुर्गतकुटुम्बकृष्टिः कथं नु मया धौतेन सोढव्या । दशापसरत्सलिलेन पश्यत सदितमिव पटेन ॥] दसिओसरंतसलिलेण उयह रुन्नं व पडएण दशापसरत्सलिलेन पश्यत रुदितमिव पटेन । अत्र कारणमाह । मए घोविएण मया धोतेन दुग्गयकुडुंबअड्ढी कह नु सोढव्वा दुर्गतकुटुम्बाकृष्टिः कथं नु सोढव्येति । धौतं किल निःस्थामसारत्वात् परस्पराकर्षणं न क्षमत इति । उत्प्रेक्षालंकारः । तस्य लक्षणम् । अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथा वर्ण्यते यत्र तामुत्प्रेक्षां प्रचक्षते ॥ (काव्यादर्श, २.२२१)॥१६॥
१७) तस्यैव (श्रीवर्मणस्य) । [कोशाम्ब (कोशाम्र)-किसलयवर्णक तर्णक उन्नामिताभ्यां कर्णाभ्याम् । हृदयेष्टं गृहं व्रजन् धवलत्वं प्राप्नुहि ॥] हे कोसंबकिसलवण्णय तण्णय कोशाम्बकिसलयवर्णक तर्णक, उन्नामिएहि कण्णेहिं उन्नामिताभ्यां कर्णाभ्याम् उपलक्षित । हियइच्छियं धरं वच्चमाण हृदयेप्सितं गृहं व्रजन् धवलत्तणं पाव धवलत्वं प्राप्नुहि धुरंधरो भूयास्त्वमिति । कोशाम्बो वृक्षविशेषः । तस्य पल्लवाः पाटला भवन्तीति । तर्णको वत्सः । एतदन्वेषणानुषङ्गेण १) अहं हृदयेप्सितगृहं प्राप्ता (8) इति आशीर्वाददानम् । आशीर्वादोऽलंकारः । (काव्यादर्श २. ३५७) ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org