SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ -१.१५ ] पढमं सयं W16 १४) अमयमय गयणसेहर रयणीमुहतिलय चंद दे छिवसु । _छित्तो जेहिं वि पिओ' मम पि तेहिं चिय करेहिं ॥१४॥ W17 १५) एइहिइ सो पउत्थो अहयं कुप्पिज्ज सो वि अणुणिज्ज । इय कस्स वि फलइ मणोरहाण माला पिययमम्मि ॥१५॥ पडिहासइ महाडि इय पुच्छियाइ भक्ष्यभोज्यलेह्यपेयानां मध्यादिति मनस्यनुध्याय किं किं ते प्रतिभासत इति सखीभिः पृष्टायाः । दयितं गता दृष्टिः, अयं मे प्रतिभासत इति भावः । दोहददानमन्तरेण मम्मणगद्गदादिदोषदुष्टा जन्तवो जायन्त इति अन्तर्वत्नीनां दोहददानेन (8) आयुर्वेद विदो वदन्ति । नवरं इति केवलार्थो निपातः । स्वीया मुग्धा नायिका ॥१३॥ १४) रुद्रसुतस्य । [ अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र प्रार्थये स्पृश । स्पृष्टो यैरपि प्रियो मामपि तैरेव करैः ॥] काचिद् विरहिणी प्राणेश्वरस्य पारम्पर्यस्पर्शमपि स्पृड्यन्तो शशिनमिदमाह । हे चंद जेहिं पि (करेहिं) पिओ छित्तो तेहिं चिय करेहिं ममं पि छिवसु यैरेव (करैः) प्रियः स्पृष्टः तैरेव करैर्माम् अपि स्पृशेति । सम्बोधनपरंपरापदेशेन संपत्त्यै प्रशंसां करोति । अमयमय गयणसेहर रयणीमुहतिलय अमृतमय गगनशेखर रजनीमुखतिलकेति यः किल प्रार्थ्यते स प्रशस्यते इति । दे इति प्रार्थनायां निपातः । विरहिणी नायिका । उन्मादो नाम संचारी भावः । इष्टजनविभवनाशादभिघाताद् वातपित्तकफकापात् । मनसिजमानविकाराद् उन्मादो नाम संभवति ॥ अनिमित्तरुदितहसितैः संगीतनृत्यप्रधावितोत्क्रुष्टैः । अप्रार्थ्यप्रार्थनया चोन्मादं दर्शयेत् प्राज्ञः ॥ (नाट्यशास्त्र, ७. १२२-१२३) ॥१४॥ १५) श्रीसातवाहनस्य । [एष्यति स प्रोषितोऽहं कुप्येयं सोऽप्यनुनयेत् । इति कस्यापि फलति मनोरथानां माला प्रियतमे ॥] काचिद् वियोगिनी स्वचेतसि चिन्तयति । एइहिइ सो पउत्थो एष्यति स प्रोषितः, •w जेहि पिभभमो २w एहिज्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy