________________
गाहाकोसो
[११२
W13 १२) रंधणकम्मणिउणिए मा झुरमु' रत्तपाडलमुबंध ।
- मुहमारुयं पियतो विज्झाइ सिही न पज्जलइ ॥१२॥ W15 १३) किं किं ते पडिहासइ सहीहि इय पुच्छियाइ मुद्धाए ।
पढमुग्गयदोहलिणी नवर दइयं गया दिट्ठी ॥१३॥ त्वं तु वोतराग इत्यर्थः । अतश्च म्रियतां, न त्वां भणिष्यामि । यत ईदृश्यामविवेकिन्याम् उपेक्षापक्ष एव क्षमः । अपि च मरणमयि श्लाध्यं तस्याः । तस्यां मृतायामपि नानुतापो भवतीति भावः । एतेन सा स्वद्वियोगेन दशमी दशां प्राप्तकल्पा वर्तत इति प्रतिपादितं भवति । पर्यायोक्तिरलंकारः । इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये । यत् प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते (काव्यादर्श २.२९५) ॥११॥
१२) [रन्धनकर्मनिपुणिके मा विवस्व, रक्तपाटलसुगन्धिम् । मुखमारुतं पिबन् निर्वाति शिखी, न प्रज्वलति ।।] हे रंधणकम्मणिउणिए मा झूरसु रन्धनकर्मनिपुणिके मा विद्यस्व । यतः मुहमारुयं पियंतो विज्झाइ सिही वदनपवनं पिबन् निर्वाति शिखी, न पज्जलइ न दीप्यते । इति । कथंभूतम् । रत्तपाडलसुयंधं रक्तपाटलमुगन्धम् । संधुझिते हि मयि रक्तपाटलसुगन्धवदनपवनपानसुखं न संपत्स्यते. इति मत्वा पावको न प्रदोप्यते, इति । अन्ये तु अघरदलदन्तव्रणवशविसूचितफूत्कारमारुताया दुर्विनयं प्रच्छादयन्ती काचिदिदमाह इत्याहुः । अत्र पक्षे लेशोऽलङ्कारः । जइ सो सोहग्गणिही दिट्ठो नयणेहि ति चिय गलंतु । अंगाइ अपावियसंगमा ता कीस झिज्जंति ॥ क्षेपकः ॥१२॥
१३) [किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्ध याः। प्रथमोद्गतदोहदायाः केवलं दयितं गता दृष्टिः ॥] मुद्धाए नवरं दइयं गया दिट्ठी मुग्धायाः केवलं दयितं गता दृष्टिः । कथंभूतायाः । पढमुग्गयदोहलिणाएँ प्रथमोद्गतदोहदिन्याः । पुनरपि कथंभूतायाः । किं किं ते १w जूरसु २w माइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org