________________
१६० गाहाकोसो
[४.५८W157 ३५८) अप्पत्तमन्नुदुक्खय किं मं किसिय त्ति पुच्छसि हसंतो।
पावसु याचलचित्तं पियं जणं ता तु पुच्छिस्सं ॥५८॥ . W158 ३५९) अवहत्थिऊण सहिजंपियाइँ जाणं करण रमिओ सि । -
एयाइँ ताइँ सुक्खाइँ संसओ जेहि जीयस्स ॥५९॥ हावहराइँ सरभससुरततृष्णापहरणानि । कस्य । सयललोयस्स सकललोकस्य । प्राकते पूर्वनिपातस्यानियमात् 'सरहस'शब्दस्य परनिपातः । तृष्णापाद्य (? तृष्णायाः) सरभस इति विशेषणम् । वेसविलया वेशवनिता । तस्या लक्षणम् – पण्याङ्गना तु बाढं रमयति यूनां (मनांसि) कृतककृतैः । रसभावहावहेलाविलासकिलकिश्चितैः सुरतैः ॥ अस्यास्तु भवति भूयो रतिः सकलकलाकलापकुशलायाः । शङ्गारस्याभासैः केवलधनहार्यहृदयायाः ॥३५७॥
३५८) हालस्य । [अप्राप्तमन्युदुःखक किं मां कृशेति पृच्छसि हसन् । प्राप्नुहि चञ्चलचित्तं प्रियं जनं ततस्ते प्रक्ष्यामि ॥] हे अप्पत्तमन्नुदुक्खय अप्राप्तमन्युदुःखक, किं मं किसिय त्ति पुच्छसि हसंतो कि मां कृशेति पृच्छसि हसन् । पावसु याचलचित्तं प्राप्नुहि आचलचित्तं चञ्चलस्वभावं पियं जणं ता तु पुच्छिस्सं प्रियं जनं ततस्त्वां प्राप्तमन्युदुःख प्रक्ष्यामीति । एतदुक्तं भवति । न मया कदाचिदपि तवापराद्धम् । अतो अप्राप्तदुःखतया अपरवेदनानामज्ञानात् किं त्वं कृशेति मां पृच्छ स । यदा चञ्चलचित्ताम् अन्यां प्रेयसी प्राप्स्यसि, ता ततः, तु इति कर्मणि षष्ठी द्रष्टव्या (तव प्रक्ष्यामत्यर्थः)। मन्युरपराधः । विप्रलम्भे मानिनी मध्या नायिका । धृष्टो नायकः । अमर्षेविषादादिव्यभिचारिभावाः । सूत्रकोपरानुभावः १), देहदौर्बल्यं शरीरानुभावः ॥३५८॥
३५९) प्रवरराजस्य । [अपहस्त्य सवींजल्पितानि येषां कृते रमितोऽसि । एतानि तानि सौख्यानि संशयो यैर्जीवस्य. ॥ ] काचित् १w. अप्पत्तमण्णुदुक्खो; २w. पावसि जा चलचित्तं; ३w. ता तुह कहिस्सं.
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org