________________
१५८]
गाहाकोश
[४.५३
W152 ३५३) मा कुण पडिवक्खसुहं अणुणेसु पियं पसायलोहिल्लं ।
अइगरुयगहियमाणेण पुत्ति रासि व्व झिन्जिहिसि ॥५३॥ W153 ३५४) विरहकरवत्तसहफालिंज्जंतस्स तीइ हिययस्स ।
अंसु सकज्जलमीसं पमाणसुत्तं व से पडियं ॥५४॥ W154 ३५५) दुन्निक्खेवयमेयं पुत्तय मा साहसं करिज्जासु ।
इत्थ निहित्ताइँ वेणे हिययाइँ पुणो न लब्भंति ॥५५॥
३५३) निष्कलङ्कस्य । [ मा कुरु प्रतिपक्षसुखम् , अनुनय प्रिय प्रसादलोभवन्तम् । अति गुरुकगृहीतमानेन पुत्रि राशिरिव क्षेष्यसि ।।] हे पुत्ति पुत्रि, मा कुण पडिववस्वसुहं मा कार्षीः प्रतिपक्षसुखम् । अणुणेसु पियं पसायलोहिल्लं अनुनय प्रियं प्रसादलोभिनम् । प्रियः प्रसादे लोभवान् भवति । अइगहियगरुयमाणेण झिज्जिहिसि अतिगुरुकगृहीतमानेन क्षीणा भविष्यसि । केव । रासि व्व राशिरिव । यथा राशिः अतिगुरुणा गृहीतेन मानेन क्षीयते तथा त्वमपि, इति मानं मा कार्षीरिति । मानो मानिनीपक्षे अहंकारः । राशिपक्षे कुडवादीनामन्यतमः । भाक्षेपोपमाभ्यां संसृष्टिरलंकारः । सखीभिः शिक्षोक्तिः ।। ३५३॥
३५४) मातङ्गस्य । [ विरहदुस्सहकरपत्रपाट्यमानस्य तस्या हृदयस्य । अश्रु सकज्जलमिश्र प्रमाणसूत्रमिव तस्याः पतितम् ।। ] अश्रु सकउजलमित्रं पतितम् । किमिव । पमाणसुत्तं व प्रमाणसूत्रमिव । कस्य । हिययस्स हृदयस्य । कीदृशस्य । विरह करवत्त दूसहफालिजंतस्त विरहदुस्सहकरपत्रपाट्यमानस्य । प्राकृते पूर्वनिपातानियमाद् दुस्सहशब्दस्य परनिपातः । यत् करपत्रेण पाटयितुमिष्यते तस्य किल कृष्णं प्रागेव प्रमाणसूत्रं पात्यत इति । उत्प्रेक्षालंकारः । विरहिणी नायिका ॥३५४॥
___३५५) मातुलस्य ( or माहिलस्य)। [ दुनिक्षेपकमेतत् पुत्रि मा साहसं कुर्याः । अत्र निहितानि सखि हृदयानि पुनर्न लभ्यन्ते ॥ ] १w. अइगहिअगरुअमाणेण; २w. फालिज्जतम्मि तीअ हिअअम्भि; ३w. कज्जलमहलं; ४w. व पडिहाइ, ५. मणे.
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org