________________
-४.४८ ]
W146 ३४७) उम्मूलंति व हिययं ईमाइँ हो हे विरज्जमाणस्स । अवहेरिव सविसंठुलवलंतणयणद्धदिट्ठाई ॥ ४७ ॥
W147 ३४८) न मुयंति दोहसासे नैं रूयंति न हुँति विरहकि सियाओ । नाउ ताउ जासि बहुवल्लह वल्लहो न तुमं ॥ ४८ ॥
मुग्धवधूर्हस्यते । किं कुर्वती । पप्फोडंती नहवयाई । प्रस्फोटयन्ती नखपदानि । किं क्रियमाणा सती । सहियाहि भण्णमाणी सखीभिर्भण्यमाना । किं तदित्याह । थणए लग्गं कुसुंभपुष्पं ति स्तने लिग्नं कुसुम्भपुष्पमिति । अत्र कुसुमबुद्धया नखक्षताक्षेपणं सखीनां हासहेतुः । हासः स्थायी भावः । मुग्धा नायिका । तदाश्रयो जातिरलंकारः ॥ ३४६ ॥
३४७) तस्यैव ( मालवाधिपस्य ) । [ उन्मूलयन्तोव हृदयम् इमानि हो है विरज्यमानस्य । अवधीरणावशविसंष्टुलवलमाननयनार्धदृष्टानि ।।] तव अवधीरणावराविसंष्टुलवलन्नयनार्धनिरीक्षितानि उन्मूलयन्तीव हृदयम् । किंभूतस्य तव । विरज्यमानस्य । पूर्वं खलु मयि भवदीयाः स्नेहार्द्रा दृष्टिनिपाताः प्रादुरासन् । संप्रति त एवं अन्यथाभूता व्यथयन्ति माम् इति भावः । उत्प्रेक्षाहेतुभ्यां संसृष्टिरलंकारः । शृङ्गाराभासः ।।३४७॥
३४८) विजयशक्तेः । [ न मुञ्चन्ति दीर्घश्वासान् न रुदन्ति न भवन्ति विरहकृशाः । धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ||] धन्नाउ ताउ धन्यास्ता नायिकाः जासिं बहुवल्लह वल्लहो न तुमं यासां बहुवल्लभ वल्लभो न त्वम् । यतः ता न मुयंति दीहसासे न मुञ्चन्ति दीर्घनिःश्वासान् । किमेतावदेव, नेत्याह । न रुयंति न हुंति विरहकिसियाओ न रुदन्ति न भवन्ति विरहकृशाः । अहमधन्या या त्वदनुरागयोगाद् ईदृशीं दशां प्राप्तेति भावः । बहुवल्लभ इति साभिप्रायमामन्त्रणम् | त्वं किलबह्वीनां वल्लभो नास्माभिर्लभ्यसे, इति । रुद्रटमते लेशो नामालंकारः ॥ ( रुद्रट, ६, १०० ) ॥ ३४८ ॥
१w. उम्मूलेति ; २w. इमाइ रे तुह विरजमाणम्स; ३w. अवहीरणवसवि - संकुल ४w. ण रुअंति चिरं ण होंति किसिआओ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org