SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५४] गाहाको [४.४४ / W143 ३४४) हरिeिs पियस्स नवचूयपल्लवो पढममंजरिसणाहो । मा रुय पुत्ति पत्थाणकलसमुहसठिओ गमणं ॥ ४४ ॥ W144 ३४५) जो कह वि स हीहि महं छिद्द लहिऊण पेसिमो हियए । सो माणो चोरियकामु व्व दिट्ठे पिए नट्ठो ॥ ४५ ॥ W145 ३४६) सहियाहिँ भण्णमाणी थणए लग्गं कुसुंभपुष्फे ति । मुद्धबहुया हसिज्जइ पप्फोडती नहरयाई ॥ ४६ ॥ ३४४) बन्धुधर्मणः [ हरिष्यति प्रियस्य नवचूतपल्लवः प्रथममञ्जरीसनाथः । मा गेदी: पुत्रि प्रस्थान कलशमुखसंस्थितो गमनम् ॥ ] काचित् भविष्यत्प्रियप्रवासाक्रान्तां कांचित् समाश्वासयितुम् इदमाह । मा यसुपुत्तिमा रुदः पुत्रि । यतः नवचूयपल्लवो पियस्स गमणं हरिहि नवचूतपल्लवः प्रियस्य गमनं हरिष्यति । कीदृशः । पढममंजरिसणाहो प्रथममञ्जरीसनाथः । भूयश्च कीदृशः । पत्थाणकलसमुहसंठिओ प्रस्थानकलशमुखसंस्थितः । अत एवासौ गमनं हरिष्यति । चूतमञ्जरीं निरीक्ष्य वसन्तागमनं मन्यमानस्त्वत्प्रियः प्रवासवासनां न विधास्यति । को हि नाम पुनर्गमनचिन्तां चित्तेऽपि करोतीति भावः । समाश्वासनं सस्वीकर्म | हेतुरलंकारः ॥ ३४४ || ३४५) [ यः कथमपि सखीभिर्मे छिद्र लब्ध्वा प्रेषितो हृदये । स मानश्चौर्य कामुक इव दृष्टे प्रिये नष्टः ।] सो माणो दिट्ठे पिए नट्ठो स मानौ दृष्टे प्रिये नष्टः । कोऽसाविव्याह । जो कह वि सहीहि महं हिए पेसिओ यो मानः कथमपि कृच्छ्रात् सखीभिर्मम हृदये प्रवेशितः । किं कृत्वा । छिद्दं लहिऊण छिद्रं प्रियापराधलक्षणं लब्ध्वा । क इव नष्टः । चोरियकामुरव्व चौर्य कामुक इव । यथा हि चौर्यकामुकः छिद्रमासाद्य प्रवेशितः प्रियेणावलोकिते नश्यति, तथा मान इत्यर्थः ॥ ३४५॥ ३४६) मालवाधिपस्य । [सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति । मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि ॥ ] मुद्रवहुया हसिजइ १w. मह सहीहिं; २w. भण्णमाणा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy