________________
गाहाकोसो
[४.३५
W135 ३३५) वसइ जहिं चेय खलो पोसिज्जतो 'सिणेहदाणेण । तं चेय आलयं दीवड व्व अइरेण मइलेइ ॥ ३५ ॥
१५०
W136 ३३६) हुंती व निष्फल चिय धणरिद्धी होइ "दाणरहियस्स । गिम्हायवसंतत्तस्स निययछाहि व्व वच्छस्स ॥ ३६ ॥
भूतेन नित्यं परगृहभ्रमणशीलेन । किमर्थम् । अन्नकार्येण । बलिवाञ्छया : हि काका : प्रतिभवनं भ्राम्यन्ति । पुनरपि कीदृशेन । चिरजीविना । चिरं हि काका जीवन्तीति लोकप्रसिद्धिः । दियसियं सर्वदा । विवक्षितान्यपरवाच्यलक्षणक्रमोदद्योतस्य शब्दशक्तिमूलानुरणनव्यापारव्यङ्ग्यस्यायं ध्वनेः प्रभेदः । अविशेषः श्लेषोऽयमिति रुद्रटः । अविशेषः श्लेषोऽसौ विज्ञेयो यत्र वाक्यमेकस्मात् । अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम् ॥ ( रुद्रट, १०, ३ ) ॥ ३३४ ॥
३३५ ) [ वसति यस्मिन्नेव स्वल: पोष्यमाणः स्नेहदानेन । तमेवालयं दीपक इवाचिरेण मलिनयति ॥ ] तं चेय आलयं अइरेण स्वलो मइलेइ तमेवालयम् अचिरेण खलो जनो मलिनयति । तं कम् । जहिं चेय वसइ यस्मिन्नेव वसति । किं क्रियमाणः । पोसितो सिणेहदाणेण पोष्यमाणः स्नेहदानेन । कं क इव । अलय दीवउ व्व आलयं दीपक इव । यथा हि दीपक: स्नेहेन वर्धमानो यत्रैव वसति तमेवालयं मलिनयति, तथा खलजनोऽपीति । उपमालंकारः ॥ ३३५॥
३३६ ) कीर्तिरसिकस्य । [ भवन्ती अपि निष्फलैव धनर्द्धिर्भवति दानरहितस्य । ग्रीष्मातपसंतप्तस्य निजकच्छायेव वृक्षस्य ।।] दाणरहियस्स धरिद्धी हुंती व निष्फल च्चिय होइ दानरहितस्य धनर्द्धिः भवन्ती अपि निष्फलैव भवति । केव कस्य । निययछाहि व्व वच्छस्स निजकच्छायेव वृक्षस्य । कथंभूतस्य । गिम्हायवसंतत्तस्म ग्रीष्मात पसंतप्तस्य । यथा तरोः स्वच्छाया न संतापशान्त्यै उपपद्यते एवं दानशून्यस्य घनर्द्धिर्न सिणेहदाणेहिं; २w कि.विणपुरिस्स; ३w. पहिअस्स.
१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org