________________
-४.३८] चउत्थं सयं
१५१ W137 ३३७) फुरिए वामच्छि तए जेइ एइ पिउ त्ति मज्झ ता सुइरं ।
मीलियदोहिणणयणा तैइ अघियण्हं पलोइस्सं ॥३७।। W138 ३३८) सुणयपउरम्मि गामे हिंडती तुह करण सा बाला ।
पासयसारि व्व घरघरेण केणावि खज्जिहिइ ॥३८।' सुखाय जायत इत्यर्थः ।। अन्ये तु 'छाहि व्व किविणस्स' इति पठन्ति । तत्र च यथा स्वच्छाया ग्रोष्मातपतप्तस्य (कृपणस्य) तथा धनाद्धदानशून्यस्य कृपणस्य शान्तये न भवतीति योज्यम् । उपमालंकारः ॥३३६॥
३३७) कन्दुकस्य । [स्फुरिते वामाक्षि त्वयि यद्येति प्रिय इति मम तत् सुचिरम् । मीलितदक्षिणनयना त्वयाऽवितृष्णं प्रलोकयिष्यामि ।।] हे वामच्छि, तए फुरिए जइ एइ मज्झ पिउ त्ति हे वामाक्षि त्वयि स्फुरिते यद्येति मम प्रियः, ता तइ सुइरं पलोइस्सं तत् त्वया सुचिरं प्रलोकयिध्यामि । अवियोहं अवितृष्णं सस्पृहमिति यावत् । प्रियतमानयनतः त्वत्कृ तोपकारस्य सुन्दरस्वकान्तसंदर्शनं प्रत्युपकारं करिष्यामीति भावः । वामाङ्गभागस्फुरणे पुरन्ध्रोणां समीहितसिद्धिः स्यादिति हि अङ्गविद्यायाम् । श्रीभोजदेवमतेन अन्योन्यमलंकारः । अन्योन्यमुपकारो यस्तदन्योन्यमितीष्यते (cf. सरस्वतीकण्ठाभरण, ३९) । परिवृत्तिरित्यन्ये । वयं तु मन्य महे अन्योन्यपरिवृत्तिसंकरम् ॥३३७॥
३३८) माधवस्य । [श्वप्रचुरे ग्रामे हिण्डमाना तव कृते सा बाला । पाशकमारिरिव प्रतिगृहं केनापि स्वादिष्यते ।।] श्वप्रचुरे ग्रामे भ्राम्यन्ती तव कृने सा बाला शुना केनापि खादिष्यते । पासयसारि व पाशकसारिरिव । यथा हि सारिः प्रतिगृहं भ्राम्यन्ती केनापि खाद्यते तथा सापीत्यर्थः । उपमालंकारः ॥३३८॥
१w. जइ एहइ सो पिओ ज्ज ता सुइरं; २w. संमीलिअ दाहिणअं; ३w. , तुइ, ४w. सुणहपउरम्मि ५w. कइआ वि..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org