________________
गाहाकोसो
[४.१२
W362 ३१२) तणुएण वि तणुइज्जइ वामेण खमिज्जए बला इमिणा ।
मज्झत्येण वि मज्झेग सुर्यणु कह तुज्झ पड़िवक्खो॥१२॥ W363 ३१३) वाहि व विज्जरहिओ धणरहिओ साहैवासवासु व्व ।
रिउरिद्धिदसणं पिव दूसहणीओ तुह वियोओ ॥१३॥
३१२) रोलदेवस्य । [तनुकेनापि तनूक्रियते क्षामेणापि क्षामीकियते बलादनेन । मध्यस्येनापि मध्येन सुतनु कथं तव प्रतिपक्षः ॥] हे सुयणु कह तुज्झ पडिवक्खो इमिणा मज्झेण बला तणुइज्जइ हे सुतनु, कथं तव प्रतिपक्षः सपत्नीजनः अनेन मध्येन बलात् तनूक्रियते काश्य नोयते । कीदृशेन मध्येन । तणुएण वि तनुकेनापि । यो हि अतनुः स कदाचिद् अन्यं तनूकरोति । न चैवं मध्यम् इति । खामेण खमिज्जए क्षामेण क्षाम्यते (=झामीक्रियते) । यो हि अक्षामो भवति स कदाचिद् अन्य क्षामयति । न चैवं मध्यमिति । कदाचिद् अमध्यस्थं मध्यं भवति इत्याह । ममत्येण वि मध्यस्थेनापि मध्येन स तथा क्रियते, क्षिति नीयते । विक्षिप इति विधीयामहे ()। प्रतिपक्षः सपत्नीजनः । तनुः कृशः । सामो निस्सहः । रुद्रटमतेन विषमः (रुद्रट, ९,४५)। आचार्यदण्डिनस्तु मते अयमेव चिहेतुरलंकारः (काव्यादर्श, २,२५३, २५८) ॥३१२॥
३१३) विफुल्लकस्य । [व्याधिरिव वैद्यरहितो धनरहितः सहवासवास इव । रिपुऋद्धिदर्शनमिव दुस्सहनीयस्तव वियोगः ॥] काचिद् विरहासहिब्णुः प्रियं प्रत्याह । वाहि व्य विग्जरहिओ व्याधिरिव वैद्यरहितः, धणरहिओ साहवासवासु व्व धनरहितः सहवासवास इव मित्रेणैव सहवास इव । रिउरिद्धिदसणं पिव रिपुऋद्धिदर्शनमिव दूसहणीओ तुइ वियोओ दुस्सहनोयस्तव वियोगः इति सर्वत्र योज्यम् । सहवासाद्वेति समृद्धयादिषु चेति दीर्घः (cf. वररुचि, १,२)। रुद्रटमतेन मालोपमालंकारः (रुद्रट, ८, २५) ॥३१३॥ १w. खीणेण वि खिज्जज्ए, २w. पुत्ति. ३w. सअणमज्झवासो व्व,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org