________________
१३९.
-४.११]
चउत्थं सयं W359 ३१०) गहवइसुउच्चिएस वि पलहीवोढेसु उयह वहुयाए।
मोहं भमइ पुलइओ सेयगलंतंगुली हत्थो ॥१०॥ W361 ३११) नीससिउक्कंपपुलइएहि जाणंति पिच्छिउँ धन्ना ।
अम्हारिसीण दिट्टे पियम्मि अप्पा वि वीसरइ ॥११॥ समं हियएण चिंतिऊण अत्र निष्पन्नाढकीक्षेत्रे अलक्षितेन मया रमितव्यं तया समम् (इति) हृदयेन चिन्तयित्वा । न पडइ तुवरी वविज्जती न पतति तुवरी उप्यमाना । विशेषणद्वारेण कारणमाह । कीदृशी। पामरकरसेउल्ला पामरकरस्वेदाः । अत एव न पततीति । स्वेदः सात्त्विको भावः ॥३०९॥
३१०) गुणनन्दिनः । [गृहपतिसुतोच्चितेष्वपि कर्पासफलेषु. पश्यत वध्वाः । मोघं भ्राम्यति पुलकितो गलत्स्वेदाङ्गुलिहस्तः ॥] उयह वहुयाए हत्थो मोहं भमइ पश्यत वन्वाः हस्तः मोघं भ्राम्यति । केषु । पलहोवोढेसु कर्पासफलेषु । कथंभूतेषु । गइवइसुउच्चिएसु वि गृहपतिसुतोच्चितेष्वपि । कथंभूतो हस्तः । पुलइओ पुलकितः । पुनः कीदृशः । सेयगलंतंगुली गलत्स्वेदाङ्गुलीकः । गृहपतिसुतकरस्पृष्ट कर्पासप्रसङ्गेन स्वेद'पुलकोद्गम इति । पलही कर्पासः । वोढं फलम् । संभावनोत्प्रेक्षालंकारः॥३१०॥
३११) जयकुमारस्य । [निःश्वसितोत्कम्पपुलकितैर्जानन्ति प्रेक्षितुं धन्याः । अस्मादृशीनां दृष्टे प्रिये आत्माऽपि विस्मरति ॥] धन्ना पिच्छिउँ जाणंति धन्याः प्रेक्षितुं जानन्ति । नीससिउकंपपुलइएहिं निःश्वसितोत्कम्पपुलकितैः । अम्हारिसीण दिटे पियम्मि अप्पा वि वीसरइ अस्मादृशीनां दृष्टे प्रिये आत्माऽपि विस्मरति, का कथा निःश्वसितादीनाम् । अहं दृष्टे प्रिये सति अत्यन्तानुरागयोगात् कोऽप्तौ, काऽहम् इत्यपि न जानामीत्यर्थः। स्वीया नायिका प्रगल्भा च : लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभु· दक्षा । आक्रान्तनायकमना नियूंढविलासविस्तारा । सुरते निराकुलाऽसौ द्रवतामिव याति नायकशरीरे । न च तत्र विवेक्तुमलं कोऽयं काऽहं किमे-- तदिति ॥ (रुद्रट, १२,२४-२५) ॥३१॥ १w. फलहीवेटेसु; २w. विलग्गसेअंगुली, ३w. णीसासुक्कंपिअषुलइएहि, ४w. णच्चिङ, ५w. अम्हारिसीहि, ६w. वीसरिओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org