________________
१२८] गाहाकोसो
[३.८४-. W334 २८४) गीर्यच्छलेण भैरई कस्स तुमं रुयसि निम्भरुक्कंठं ।
_ मन्नुपडिरुद्धकंठद्धणितखलियखरुल्लावं ॥८४॥ w335 २८५) बहलनमाहयराई अज्ज पउत्थो पई घरं सुन्न ।
तह जग्गेसु सयज्झय जहा न अम्हे मुसिज्जामो ॥८५
२८४ ) वज्रढदेवस्य । [गीतच्छन्न स्मरन्तो कस्य त्वं रोदिषि निर्भरोत्कण्ठम् । मन्युपतिरुद्धकण्ठार्धनिर्यस्खलिताक्षरोल्लापम् ॥] कस्स भरई तुम निब्भरुक्कठं रुयसि कस्य स्मरन्ती त्वं निर्भरोत्कण्ठं रोदिषि । केन । गीयच्छछेण गीतच्छलेन । कथम् । मन्नुपडिरुद्धकंठद्धणितखलियक्खरुल्लावं । मन्युप्रतिरुद्धकण्ठार्धनिर्यस्खलिताक्षरोल्लापम् इति क्रियाविशेषणम् । इति पूर्वानुरागे विप्रलम्भशृङ्गारे अनुस्मरणं नाम दशा । मन्युर्दैन्यम् । जातिरलंकारः ॥२८४।।
२८५) आउकस्य । [बहलतमआहतरात्रिः, अद्य प्रोप्पितः पतिः, गृहं शून्यम् । तथा जागृहि प्रतिवेशिन् यथा न वयं मुष्यामहे ॥] काचिदसती जारस्य आगमनाभयं सूचयन्ती इदमाह । तह जग्गेसु तथा जागृहि सयज्झय प्रतिवेशिन् , न जहा अम्हे मुसिज्जामो न यथा वयं मुष्यामहे । किं कारगम् । यतः बहलतमाहयराई बहलतिमिराहता रात्रिः । अज्ज पउत्थो पई घरं सुन्नं अद्य प्रोषितः पतिः गृहं शून्यम् । धनतमतमस्काण्डकज्जलितायां निशि न कोऽपि लक्षयति, नापि सद्यः प्रोषितस्य पत्युः प्रत्यागमनं संभाव्यते । शून्यतायां (१ शून्यतया ) प्रातिवेश्मिकवन्ध्यम् (:) अस्मद्वेश्म । निःशकं त्वया आगन्तव्यम् इति प्रयुक्त्योपपतेः ज्ञापितं भवति । सयज्झओ प्रतिवेशी । पउत्थो प्रोषितः । भावो नाम अलंकारः। तस्य लक्षणम् - अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम् । अर्थान्तरमवगमयति यद् वाक्यं सोऽपरो भावः ॥ (रुद्रट, ७,४०)॥२८५॥ १w. गेअच्छ ठेग; २w. भरिउ; ३ w. सअञ्जिअ, ४ w. ण जहा अम्हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org