________________
११६
गाहाकोसो
[३.५६
W317 २५६ ) सुहउच्छियाएँ हलिओ मुहपंकयसुरहिपत्रणणिव्ववियं ।
तह पियs पयइकडुयं वि ओसहं जह न निट्टाइ ||५६ ||
किं व तेण
यत्र नास्ति ।
ग्रामकामिनीलावण्यलोमेन पण्याङ्गना हितचित्तम् इष्टं स्वामिनमिदमाह । भुंजसु जं साहोणं हे सुहय सुभग भुङ्क्ष्व यत् स्वाधीनं, कत्ता लोणं खु गामरद्धम्मि कुतः खलु लवणे ग्रामराद्धं । सुहय सलोणेण वि हे सुभग सलवणेनापि किमिव तेन, नेहो जहिं नत्थि स्नेहो एतदुक्तं भवति । स्वाधीनं जनं रमयस्त्र । कुतः किल ग्रामे ग्रामे कामिनीनां लावण्यं लभ्यते । अयमभिप्रायः । लावण्यं हि परप्रत्ययवेद्यं यदि प्रतिपद्यसे तदा अस्ति, नो चेन् नास्तीति ब्रूमः । पण्यललना लोकस्तु निःस्नेहो भवतीति भावः । लावण्येनापि किं क्रियते यत्र स्नेहः प्रेम नास्ति । अहं खलु त्वयि अनुरक्तेति । इदम् इदमायत्तं परायत्तं च (इति) वालोक्य स्नेहो भवतीत्यर्थः । इवशब्दो वाक्यालंकारः यथा किमिव हि मधुराणां मण्डनं नाकृतीनाम् (शाकुन्तल, १, १९ ) । समासोक्तिरलंकारः । तस्य लक्षणम् । सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् । उपमानमेव गमयेद् उपमेयं सा समासोक्तिः ॥ ( रुद्रट, काव्यालंकार, ८, ६६) ॥२५५॥
1
२५६ ) त्रिलोचनस्य । [ सुखपृच्छिकाया हालिको मुखपङ्कजसुरभिपवननिर्वापितम् । तथा पिबति प्रकृतिकटुकमपि औषधं यथा नावशिध्यते ॥ ] हल्लिओ ओसहं जह न निट्ठाइ तह पियइ हालिक औषधं यथा नावशिष्येत् तथा निःशेषं पिबतीत्यर्थः । कदाचित् स्वादु स्यादित्याह । प्रकृतिकटुकमपि | किमर्थं तर्हि निःशेषयतीति विशेषणद्वारेण कारणमुच्यते । कीदृशं तत् । मुहपंकयसुरहिपवणणिव्ववियं मुखपङ्कज सुरभिणा पवनेन निर्वापितं शैत्यं नीतम् । कस्याः । सुहउच्छियाऍ सुखप्रश्नकारिण्याः । एतदीयवदनपवननिर्वापितम् इति अनुरागयोगात् सर्वं पिबतीत्यर्थः ।
॥२५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org