________________
गाहाकोसो
[३.३२W283 २३२) आसासेइ परियणं परियत्ततीऍ पहियजायाए ।
नित्थामावत्तणवलियहत्थमुहलो वलयसदो ॥ ३२ ॥ W284 २३३) तुंग च्चिय होइ मणो मणस्सिणो अंतिमासु वि दसामु ।
. अत्यंतस्स वि रविणो किरणा उड्ढं चिय फुरंति ॥३३॥
२३२) [ आश्वासयति परिजनं परिवर्तमानायाः पथिकजायायाः । निःस्थामावर्तनवलितहस्तमुखरो वलयशब्दः ॥] पहियजायाए वलयसदो परियणं आसासेइ पथिकजायाया वलयशब्दः कङ्कणध्वनिः परिजनमाश्वासयति । कीदृशः । नित्थामावत्तणवलियहत्थमुहलो निःस्थामावर्तनवलितहस्तमुखरः निस्सहहस्तावर्तनवशविशङ्खलवलयरषश्रवणेन अनुमितं परिजनेन, यथेयं देहदौर्बल्यं प्राप्ता, तथा सोढः खल्वनया सुदुःसहोऽपि प्रियविरहवेदनाऽऽवेगः । तन्नूनं न विपत्स्यत इति आश्वासनहेतुः वलयशब्दः । प्राकृते पूर्वनिपातानिपातानियमात् सुखशब्दस्य परनिपातः(?) । हेतुरलंकारः । रुद्रमतेन (तु सूक्ष्मोऽलंकारः) । यत्रायुक्तिमदों गमयति शब्दो निजार्थसंबद्धम् । अर्थान्तरमुपपत्तिमदिति तत् संजायते सूक्ष्मम् ॥ ( काव्यालंकार, ७, ९८)। आचार्यदण्डिनस्तु मते समाधिनाम गुणोऽयम् । तस्य लक्षणम् । साधारणधर्माणां यदन्यत्राधिरोपणम् इति ( cf काव्यादर्श १, ९३ ) ॥ २३२ ॥
२३३) अलंकारस्य । [ तुङ्गमेव भवति मनो मनस्विनोऽन्तिमास्वपि दशासु । अस्तं गच्छतोऽपि रवेः किरणा ऊर्ध्वमेव स्फुरन्ति ॥] तुंग चिय होइ मणो मस्सिणो तुङ्गमेव भवति मनो मनस्विनः अंतिमासु वि दसासु अन्तिमास्वपि दशासु । इदमेव समर्थयन्नाह । मत्थंतस्स वि रविणो किरणा उद्धं चिय फुरति अस्तं गच्छतोऽपि. रवेः उर्ध्वमुखा एव मयूखाः स्फुरन्ति । अर्थान्तरन्यासोऽलंकारः॥ २३३ ।। .. १w. णित्थामुन्वत्तण; २w. तुंगो चिअ, ३w. मणंसिणों; ४w. अस्थमणम्मिः ५w. रइणो; ६w. उद्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org