________________
४२
विषयानुक्रमः ।
साकेतपुराधिप पुरुषोत्तमनृपामन्त्रितस्य कनकध्वजराजस्य साकेतपुरोद्यानस्थजिनमन्दिरे दर्शनवन्दन- पूजाकरणं जिनेश्वरस्तवनं च ।
कनकध्वजराजस्य पुरुषोत्तमनृप तत्पुरोहितकपिञ्जलाभ्यां सह जिनमन्दिर बहिरुद्यानस्थिताचार्यान्तिके धर्मोपदेशश्रवणम् । जीवास्तित्वनिरासप्रतिपादकं कपिञ्जलं प्रत्याचार्यप्ररूपिता जीवा - स्तित्वसिद्धिः ।
१७७-७८
कपिञ्जलपुरोहिताज्ञानकारणमुद्दिश्याचार्यस्य पुरुषोत्तमनृप कपिञ्जलादिपूर्वभवकथाप्ररूपणम् । १७८-८६ [मृगयासक्तवसन्तपुराधिपवीराङ्गदनृपस्यारण्ये वराहपोतवधार्थमुक्तबाणानुधावतो ध्यानस्थमुनिचरणान्तिकबाणपतनदर्शनात् क्षोभः । सविनयमनेकविधपश्चात्तापपूर्वकं वीराङ्गदनृपकृता क्षमापना । समापितध्यानस्य मुनेवराङ्गदनृपं प्रति जीवदयाप्रधानो धर्मोपदेशः (पृ०१७८-७९) । प्रतिपन्नाणुव्रतस्य वीराङ्गदनृपस्य जिनप्रियश्राद्धोपरि बहुमानभावं विज्ञाय मोहनामिधाऽऽजीवकश्राद्धस्य जिनप्रियश्राद्धं प्रति वीराङ्गदनृपान्तिके धर्मकरणसहायक नियोजनरूपा प्रार्थना, तदनन्तरं जिनप्रियश्राद्धप्रेरणानुसारेण मोहनस्य वीराङ्गदनृपधर्माचरणसहायकत्वेनावस्थानं च ( पृ० १७९ ) । प्रव्रज्याग्रहणपरिणामवीराङ्गदनृपाग्रे स्वसुखलालसासक्तमोहनकृतं साध्वाचारपालनाभावमूलकं गृहस्थभावधर्मासेवनप्राधान्यप्ररूपणम् ( पृ० १७९-८० ) । जिनप्रियश्राद्धस्याग्रे वीराङ्गदनृपस्य मोहनाभिप्रायसहितं स्वप्रव्रज्या ग्रहणाभिप्रायवृत्तान्त निवेदनम् । मोहनमुद्दिश्य जिनप्रियश्राद्धकृतः प्रव्रज्याग्रहणनिषेधक विचार प्रत्युत्तररूप उपदेश: ( पृ० १८० ) । प्रदत्तवीर सेनकुमारराज्यस्य जिनप्रियश्राद्धादिसमन्वितस्य वीराङ्गदनृपस्य प्रव्रज्याग्रहणम्, क्रमेण वीराङ्गद जिनप्रिययोर्देवलोकगमनं च । निर्ग्रन्थछिद्रान्वेषकस्य मोहनस्य मरणानन्तरं हस्तिभवः, आसन्नस्थित साधुस्वाध्यायशब्द श्रवणप्रकुपितस्य मोहनजीवहस्तिनः साधुमारणाय धावतो गर्तापतनम्, मरणम्, रत्नप्रभायां नारकत्वेनोत्पत्तिश्च । नरकादुद्धृत्य मोहनजीवस्य श्येनपक्षित्वेनोत्पत्तिः, ततो वालुकाप्रभायां नारकत्वेनोत्पत्तिः, ततः सिंहभवः, ततः पङ्कप्रभायां नारकत्वेनोत्पत्तिश्च । पङ्कप्रभानरकादुद्वृत्तस्य मोहनजीवस्य श्रीधननगरे कामदत्त-वसुदत्तानामवणिग्दम्पत्योः सुमित्राभिधेयपुत्रत्वेन जन्म, तारुण्यप्राप्तिश्च ( पृ० १८१) । · जिनप्रियश्राद्धजीवस्य देवलोकच्यवनानन्तरं श्रीधननगरे विनयन्धर श्रेष्ठि- गुणवतीश्रेष्ठिन्योर्गुणन्धरनामपुत्रत्वेन जन्म तारुण्यप्रातिश्च । क्रमशः सद्भाव -कैतवयुतयोर्गुणन्धर-सुमित्रयोवयस्यभावः (पृ० १८१) । जनक -जननीमरणानन्तरं दारिद्रयोपहत सुमित्रोपकारार्थं गुणन्धरस्य सुमित्रेण सह धनोपार्जनार्थं देशान्तरप्रयाणम् । अरण्य-वीरपुर - समुद्रादिषु धनलिप्साभिभूतस्य गुणन्धरमारणव्यवसितस्य सुमित्रस्य सर्वप्रयासनैष्फल्यम्, अन्ते गुणन्धरमारणच्छिद्रान्वेषकस्य सुमित्रस्य स्वप्रमादवशात् समुद्रपतनं मरणं च । समुपार्जितबहुधनस्य गुणन्धरस्य स्वनगरागमनम्, सुमित्रवियोग परितापः, अवधिज्ञा निमुनिकथनात् सुमित्रकुटिलस्वभावतामवगम्य संसारविरक्तिः, प्रव्रज्याग्रहणं च ( पृ० १८१-८६) । कनकध्वज - पुरुषोत्तमादिसमक्षं कपिञ्जलपूर्वभवकथां कथयतो मुनेर्गुणन्धरश्रमणत्वेन स्वपरिचय निरूपणम् । देवलोकच्युतस्य वीराङ्गदनृपजीवस्य पुरुषोत्तमनृपत्वेन मुनिकृतः परिचयः, मोहनाजीवकश्राद्ध विमोहित शिवदेवश्राद्धजीवस्य कपिलत्वेन परिचयश्च ( पृ० १८६) । ]
Jain Education International
१७७
For Private & Personal Use Only
www.jainelibrary.org