SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । ११ "वृत्तिगवेषणार्थ काञ्चनपुरप्रस्थितयोविन्ध्य-शबराभिधानयोर्मार्गे किञ्चिन्नगरोद्याने मासोपवासिमुनिभिक्षादानम् , यक्षपूजार्थं तत्रागतयोः ऋद्धि-वृद्धिनामधेयराजकन्ययोर्मुनिदानानुमोदना । विन्ध्य-शबरयोः काञ्चनपुरगमनम् , उन्मत्तहस्तिवशीकरणेन काञ्चनपुरनृपतिवृत्तिप्रापणं च । यथाकालं प्राप्तमरणयोविन्ध्य-शबरयोः ऋद्धि-वृद्धिराजकन्ययोश्चोत्तरकुराक्षेत्रे मिथुन-मिथुनिकात्वेन जन्म, चिरसुखोपभोगानन्तरं पुनर्यथाकालं प्राप्तमरणयोश्चतुर्णामपि सौधर्मदेवलोकगमनम् , सौधर्मदेवलोकच्यवनानन्तरं श्रीबल-शतबल-सुलक्षणा-लक्षणात्वेन जन्म, श्रीगुप्तसिद्धपुत्रोत्तरसाधकस्य श्रीबलकुमारस्य विद्याधरापहृतारण्यस्थितसुलक्षणारक्षापुरस्सरं सुलक्षणया सह पाणिग्रहणम् , लक्षणाहर्तृकुञ्जरनामराजकुमारपराभवानन्तरं शतबलकुमारस्य लक्षणया सह पाणिग्रहणं च ।" इत्यादिप्रसङ्गमयी सकलत्रयोः श्रीबल-शतबलयोः पूर्वभवनिरूपणपूर्विका जयनन्दनमुनिकथिता कथा । १६५-६७ सुलक्षणापहारकविद्याधरस्य प्रव्रज्याग्रहणं निर्वाणगमनं च । . १६८ गिरिसुन्दर-रत्नसारौ राज-युवराजपदे नियोज्य श्रीबल-शतबलयोः प्रव्रज्याग्रहणम् । १६८ कल्पवृक्षदर्शनस्वप्नावलोकनप्रतिबुद्धस्य गिरिसुन्दरस्य जिनपूजाकरणानन्तरं जिनस्तुतिकरणं चैत्यगृहसमीपस्थमुनिवन्दनं च । १६९ संसारसुखक्षणभङ्गुरत्वोपदेशात्मिका मुनेर्धर्मदेशना, गिरिसुन्दरस्य वैराग्योल्लासश्च । जयनन्दनमुन्यागमनं प्रतीक्षमाणयोर्विरक्तयोगिरिसुन्दर-रत्नसारयोः प्रव्रज्याग्रहणं संयमाराधनाक्रमेण देवलोकगमनं च । १७०-७१ ९. नवमः कनकध्वज-जयसुन्दरभवः । १७२-८८ गिरिसुन्दरजीवदेवस्य रत्नसारजीवदेवस्य च देवलोकच्यवनानन्तरं क्रमेण तामलिप्तिनगर्यधिपसुमङ्गलनृपतेः प्रथम-द्वितीयराश्योः श्रीप्रभा-स्वयम्प्रभाभिधानयोः पुत्रत्वेन जन्म, अनुक्रमेण कनकध्वज-जयसुन्दराभिधानयोस्तयोः तारुण्यप्राप्तिश्च । १७२-७३ कनकध्वज-जयसुन्दरकृतराधावेधविज्ञानप्रकर्षपरितुष्टाभ्यां सुरवेग-सूरवेगविद्याधरनृपाभ्यां कुसुमवृष्टिकरणम् । १७३ सुरवेग-सूरवेगविद्याधरनृपयोः स्वस्वकन्याशतकपरिणायनार्थ साडम्बरं तामलिप्त्यागमनम् । १७३ कनकध्वजकुमारस्य सुरवेगकन्याशतेन, जयसुन्दरकुमारस्य च सूरवेगकन्याशतेन सह महोत्सवपूर्वकं विवाहः । १७४ निजपुत्रयुगलपुण्यप्रभावप्रभावितस्य सुमङ्गलनृपस्य धर्माचरणार्थ धर्मपरीक्षाप्रत्ययिकः परामर्शः। १७४ तामलिप्त्युद्याने कायोत्सर्गस्थितमुनेः केवलज्ञानोत्पत्तिः । सुमङ्गलनुपादिपर्षदि शुद्धमार्गधर्मप्ररूपणविषया केवलिनो धर्मदेशना च । १७५ कनकध्वजकुमारस्य राज्याभिषेकः, सुमङ्गलनृपस्य प्रव्रज्याग्रहणं च । १७६ देशयात्रा-तर्थयात्रार्थ सभ्रातृ-परिवारस्य कनकध्वजराजस्यान्यान्यराज्यपरिभ्रमणम् । १७६-७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy