________________
४०]
विषयानुक्रमः ।
पर्वतोपरिहियमाणयुवतीरुदनशब्दश्रवणसम्भाविततस्करावस्थानस्य गिरिसुन्दरकुमारस्य पर्वतगवेषणम्, तस्करस्य नारीलम्पटत्वं निश्चित्य रूपपरावर्तिन्या विद्यया स्वस्य तरुणीरूपकरणम्, कापालिकरूपधारितस्करदर्शनानन्तरं रोदनं च । रूपवती तरुणी प्रेक्ष्य कापालिकरूपधारितस्करस्य सम्मोहः, रोदनकारणपृच्छा च । तरूणीरूपधारकगिरिसुन्दरकुमाराख्यातकपटकथाकथितपतिवियोगश्रवणानन्तरं पतिप्रापणाश्वासनं दत्त्वा तरुणीरूपधारिगिरिसुन्दरकुमारस्य कापालिकरूपधारितस्करकृतं स्वमढिकानयनम् । अपहृतयुवतीशतकमध्ये तरुणीरूपधारिगिरिसुन्दरकुमारं मुक्त्वा कापालिकरूपधारितस्करस्य बहिर्गमनम् । तरुणीरूपधारिगिरिसुन्दरकुमाराग्रेऽपहृतश्रेष्ठिपुत्रिसुभद्राकृतं चन्द्रहासखड्गप्रभावात् कापालिकरूपधारितस्करस्याजेयत्वनिरूपणम् । गृहीतचन्द्रहासखगस्वरूपावस्थितगिरिसुन्दरकुमारकृतो कापालिकरूपधारिणो दण्डपालनाम्नस्तस्करस्य वधः । लोकापवादभयमरणोद्यतयुवतीशतकप्रार्थनानन्तरं गिरिसुन्दरकुमारकृतः कन्याशतस्वीकारः, मढिकायामेव ताभिः सममवस्थानं च ।
१५७-५९ परावर्तितरूपस्य गिरिसुन्दरकुमारस्य स्वनगरागमनम् । गिरिसुन्दरकुमारान्वेषणोद्यतरत्नसारकुमारदेशान्तरगमनवृत्तान्तं केनापि ज्ञात्वा भ्रातृस्नेहवशार्तमनसो गिरिसुन्दरकुमारस्य रत्नसारकुमारान्वेषणार्थ विविधस्थानपरिभ्रमणम्। कस्यचिद् ग्रामस्य देवकुलिकायां रात्रिनिर्गमनार्थमवस्थितस्य गिरिसुन्दरकुमारस्य तत्रस्थितान्यान्यपथिकवार्तालापान्तर्गतमहासेना भिधानपान्थात्मचरितात्मकवृत्तान्तश्रवणम् , तद्यथा-कथयितृपथिकस्य-महासेनस्य स्वभ्रातृगवेषणनिमित्तं पर्यटता राजपुत्रेण रत्नसारेण सह सहचारः, उद्वसितदेशभ्रमणम् , शून्यप्रासादरात्रीनिर्गमनम्, रात्रावपि जाग्रद्राजकुमाराग्रे रत्नसाराग्रे व्याघ्ररूपधारिदेवागमनम् , राजकुमाररत्नसारकृतदेशोद्वसनपृच्छायां व्याघ्ररूपधारिदेवकथितं राज्यलोलुपलधुभ्रातृकृतवधानन्तरोपलब्धदेवत्वकृतलधुभ्रातृविनाश-देशोद्वसनादिवृत्तान्तमयं स्वपूर्वभववर्णनम् , राजकुमार(रत्नसार) चरितप्रसन्नव्याघ्ररूपधारिदेवकृतं देशप्रकृतीनां पुनर्वासनम्, राजकुमारस्य-रत्नसारस्य नगराधिपत्वं देवप्रसादनाम्ना प्रसिद्धिश्च, गुरुभ्रातृ (गिरिसुन्दरकुमार मिलनसमयावधि कथयित्वा व्याघ्ररूपधारिदेवस्य स्वस्थानगमनम्, निजमित्रदेवप्रसाद(रत्नसार)गुरुभ्रातृ(गिरिसुन्दर)गवेषणार्थ निजपरिभ्रमणकारणनिवेदनं च ।
१५९-६१ देवकथितसमयावध्यनन्तरं निजभ्रातृगिरिसुन्दरादर्शने कृतमरणनिश्चयं देवप्रसादं रत्नसारमेवावगम्य परावर्तितरूपस्य गिरिसुन्दरकुमारस्य महासेनेन साधं देवप्रसाद(रत्नसार)नृपान्तिके गमनम् । परावर्तितरूपमपि गिरिसुन्दरकुमारं दृष्ट्वा देवप्रसादस्य-रत्नसारस्य मनःशान्तिः, द्वयोः सहावस्थानं च । देवकथितसमयावधावतिक्रान्तेऽपि गिरिसुन्दरकुमारादर्शने स्वप्रतिज्ञापरणार्थ मरण(आत्मघात)प्रवृत्तं देवप्रसाद-रत्नसारं विनिवार्य गिरिसुन्दरकुमारस्य स्वरूपावस्थानेन प्रकटनम् । महासेनाय राज्यं समय गिरिसुन्दर-रत्नसारयोः स्वनगरागमनम् ।
१६२-६४ पित्रादिसमक्षं गिरिसुन्दरस्य दण्डपालतस्करवृत्तान्तकथनम् । जयनन्दनमुनेरागमनम् । लघुभ्रातृशतबल-पुत्रगिरिसुन्दर-भ्रातृव्यरत्नसारादिसमन्वितस्य श्रीबलराजस्य जयनन्दनमुनिवन्दनार्थ गमनम् । शुभाशुभकर्मोदयफलगर्भिता जयनन्दनमुनेधर्मदेशना ।
१६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org