________________
३४]
विषयानुक्रमः।
मात्यस्य कृतराजपुत्रवेशच्छन्नगुणसेनाभिधानराजपुत्रीप्रजितपितृश्रीकेतुवृत्तान्तगतविनयन्धरश्रेष्ठिभार्याचतुष्टयापहरण-शीलप्रभावावर्जितप्रवचनदेवीकृतबीभत्सरूपविनयन्धरश्रेष्टिभार्याचतुष्टयावलोकनश्रीकेतुनृपपश्चात्ताप-सूरसेनाचार्यदेशनागतविनयन्धरश्रेष्ठिभार्याचतुष्टयपूर्वभवकथासमन्वितशीलरक्षोपदेशश्रवणप्रभावितश्रीकेतुनृपचारित्रग्रहणनिश्चयकरण-गुर्विणीविजयन्तीराज्ञीराज्याभिषेक-श्रीकेतुनृपप्रव्रज्याग्रहण-विजयन्तीराज्ञीप्रसवितपुत्रीजन्मगोपन-पुत्रजन्मोद्घोषण-कृतराजकुमारवेशप्राप्ततारुण्यप्रच्छन्नराजपुत्रीस्वरूपकथनात्मकमाराधितयक्षसूचित कमलसेन-गुणसेनाविवाहाद्यात्मकं च सस्तिरं वक्तव्यम् । ३४-५१
[अमात्यवक्तव्यगतसूरसेनमुनिदेशनायां विनयन्धरजोवस्य विचारधवलनृपाख्यपूर्वभवधर्माराधनापूर्वकदेवलोकगमन-च्यवनानन्तरं विनयन्धरत्वेनोत्पत्तिकथनम् (पृ० ३६-३७) ।
___ अमात्यवक्तव्यगतसूरसेनमुनिदेशनान्तर्गतविनयन्धरभार्याचतुष्टयपूर्वभवकथानकम् । साकेतपुराधिपनरकेशरीनृप-कमलसुन्दरीराज्ञीपुत्र्या रतिसुन्दर्याः, श्रीदत्तामात्य-लक्षणापुत्र्या बुद्धिसुन्दर्याः, सुमित्रश्रेष्ठि-लक्ष्मीश्रेष्ठिनीपुत्र्या ऋद्धिसुन्दर्याः, सुघोषपुरोहित-सुघोषापुरोहितपत्नीपुत्र्या गुणसुन्दर्याश्च परस्परं सख्यम् । गुणश्रीनिन्थिनीप्ररूपितशीलोपदेशप्रभावितानां चतसणामपि तासां परपुरुषविरमणव्रतग्रहणम् (पृ० ३७-३९) ।
चन्द्रराजेन सह रतिसुन्दर्या विवाहः । रतिसुन्दरीरूपवर्णनविमोहितमहेन्द्रसिंहनृपप्रेषितदूतस्य चन्द्रराजसमक्ष रतिसुन्दरीप्रेषणार्थं वक्तव्यम् । चन्द्रनृपापमानितदूतकथनसञ्जातकोपस्य महेन्द्रसिंहस्य चन्द्रराजेन सह युद्धम्, चन्द्रराजस्य पराजयश्च । महेन्द्रसिंहस्य रतिसुन्दरीग्रहणनिजनगरानयने, रतिसुन्दरीयाचितमासचतुष्टयकालावधिब्रह्मव्रतपालनानुज्ञा, मासचतुष्टयतपःशोषि तरतिसुन्दरीविरूपदेहदर्शनचिन्ता, रतिसुन्दरीचक्षुःप्रशंसनं च । निजशीलरक्षार्थस्फोटितनयनरतिसुन्दरीशीलप्रभावावर्जितशासनदेवीसमर्पितनूतनचक्षुर्युगलायां रतिसुन्दर्यामुत्पन्नभगिनीभावप्रतिबुद्धमहेन्द्रसिंहस्य बहुमानपूर्वकं चन्द्रराजाय रतिसुन्दरीसहितराज्यसमर्पणम् (पृ० ३९-४३)।
सुकीर्तिनामकसुसीमनगरामात्यगृहिणीभूताया बुद्धिसुन्दा निजरूपविमोहितनृपप्रतिबोधनिमित्ताशुचिभरितसिक्थपुत्तलिकास्फोटनप्रयोगतो निजशीलरक्षाकरणम् (पृ० ४३-४४)।
साकेतनगरागतताम्रलिप्तीवास्तव्यधर्माभिधानद्वेष्ठिपुत्रपरिणीताया ऋद्धिसुन्दर्या धर्मेण सह ताम्रलिप्तीगमनम् । द्रव्योपार्जननिमित्तं सपत्नीकस्य धर्मस्य सिंहलद्वीपगमनम् , उपार्जितबहुधनस्य स्वनगरागमार्थप्रस्थितस्य समुद्रमध्ये पोतभङ्गश्च । भग्नपोतस्यावाप्तफलकस्य ऋद्धिसुन्दरीसहितस्य धर्मस्यकस्मिन् द्वीपे आगमनम् .. सागरतीरे भग्नपोतजनावस्थानचिह्नकरणं च । भग्नपोतचिह्नदर्शनानुसारेण लोचनवणिकारापितं धर्म-ऋद्धिसुन्दोः स्वपोतारोहणम् । ऋद्धिसुन्दरीरूपमुग्धलोचनवणिक्कृतो मध्यरात्रे धर्मस्य समुद्रक्षेपः । दुश्चरितलोचनप्रकुपितदेवताकृतः लोचनपोतभङ्गः । आसादितफलकायाः ऋद्धिसुन्दर्याः थाणेसरनामस्थानप्राप्तधर्मेण सह पुनर्मिलनम् । ग्रामाधिपतिदत्तावासे तयोर्द्वयोरवस्थानम् । धर्म-ऋद्धिसुन्दर्योः थाणेसरागतदुस्थितलोचनवणिगाश्वासनादिपूर्वकमुपदेशः, लोचनस्य परदाराविरमणव्रतग्रहणं च (पृ० ४४-४९) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org