________________
विषयानुक्रमः ।
कमलाशीलकुशङ्कितस्य प्रमराजस्य प्रच्छन्नं कमलामारणार्थ प्रभाते मन्त्रिणं प्रति आदेशः । दीर्घदर्शिमन्त्रिकृतं प्रच्छन्नस्थाने कमलासन्धारणम् (पृ० १९-२०)। शून्यमनस्कविमलनृपमनोविनोदाय विठ्ठवण्ठकथितं प्राप्तमरणावसरपितृकथितनिजनिजकर्तव्यविभाजनसङ्केतापरमार्थज्ञपरस्परकलहरतधन-धनद-धर्म-सोमाभिधानधन्यश्रेष्ठिपुत्रचतुष्कग्रामीणवृद्धकृतदायविभाजनकलहनिरसनात्मकमाख्यानकम् (पृ० २०-२१) ।
अमितगत्याचार्यधर्मोपदेशगतं कपिलश्रोत्रियकथानकम् । अन्त्यजादिस्पृष्टधूलीस्पर्शादिकारणसमुत्पन्नशुचिधर्मपालनविकल्पस्य गङ्गातीरनामकसन्निवेशवास्तव्यकपिला भिधानश्रोत्रियस्य द्वीपान्तरागतनाविकपृच्छानन्तरज्ञातमनुष्य-तिर्यगादिरहितेक्षुद्वीपस्येक्षुद्वीपगमनम् । इक्षुचर्वणजातजिह्वाक्षतस्यापि शुचिधर्मपालनविषयात्मसन्तोषवतस्तस्येक्षुद्वीपे भ्रममाणस्य शुष्कविष्ठागुलिकाया इक्षुफलकल्पनया भक्षणम् । इक्षुद्वीपागतभग्नपोतवणिजो समक्ष कपिलकृतमिक्षुफलप्रतिपादनम् । वणिक्कृत इक्षुफलनिरासः शुष्कविष्ठागुलिकाप्रत्ययश्च । तदनन्तरं परिदेवमानस्य कपिलस्य वणिक्कृतं सान्त्वनम्, स्वसन्निवेशनयनं च । कपिलस्य प्रायश्चित्तद्वारेण शुद्धिश्च (पृ. २१-२३)।]
शङ्खनृप-कलावत्योः पुनर्मिलनम् । शील-देव-गुरुस्वरूपप्ररूपिका अमितगत्याचार्यधर्मदेशना । कलावतीसहितस्य शङ्खराजस्य स्वनगरप्रवेशः । अमितगत्याचार्यधर्मदेशनाभावितस्य प्रदत्तनिजपुत्रपुण्यकलशराज्यस्य कलावतीसहितस्य शक्षराजस्य धर्माचरणम्, क्रमशः प्रवज्याग्रहणं देवलोकगमनं च ।
२४-२५ २५-२६
७
२८-२९
३०-३१
२. द्वितीयः कमलसेन-गुणसेनाभवः ।
देवलोकाच्च्युतस्य शङ्खनृपजीवदेवस्य · पोतनपुराधिपशत्रुञ्जयनृप वसन्तसेनाराज्योः कमलसेनाभिधानपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । वसन्तवर्णनम् ।
उद्यानगतस्य कमलसेनस्य देवकुलिकाप्रविष्टकृतनारीरूपयक्षरुदनश्रवणानुसारसाहाय्यार्थ देवकुलिकाप्रवेशः । देवकुलिकासहितस्य कमलसेनस्य यक्षकृतं हरणम् । अरण्ये देवकुलिकास्थाने यक्षविकुर्वितप्रासादे कृतनारीरूपयक्षस्य कमलसेन प्रति विषयभोगयाचना, कमलसेनकृतस्तन्निषेधश्च । प्रासादनिर्गतस्य कमलसेनस्य कृतपुरुषरूपयक्ष कृतं सत्त्वपरीक्षणम् ।
सर स्नानानन्तरं बहिनिर्गतं कमलसेनं प्रति राजपुरुषकृतं निमन्त्रणम् । वृक्षाधःस्थिताया अमात्यादिपरिवृताया धृतराजकुमारनेपथ्यायाश्चम्पानगरीराजकुमार्याः पुरतः कमलसेनस्य राजपुरुषेण सहागमनम् ।
___ कमलसेनस्य चम्पानगरीप्रवेशः । कमलसेनं प्रत्यमात्यकृता चम्पानगरीराज्यपालनात्मिका प्रार्थना । चम्पानगर्यास्तरुणराजास्तित्वेऽपि राज्यश्रीस्वीकरणप्रार्थनाकारणजिज्ञासु कमलसेनं प्रत्य
३१-३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org