________________
४०८
હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા જ હેતુનું મુખ્ય સ્વરૂપ છે. જૈન પરંપરા અનુસાર તે એક જ રૂપના અન્વય યા વ્યતિરેક બે જુદા જુદા નામો જ માત્ર છે. આ સિદ્ધાન્તને અનુસરીને આચાર્ય હેમચન્દ્રે છેવટે उही हीधुं छे } 'सपक्षे एव सत्त्व' ने भे अन्वय महेता हो तो ते खमारो अभिप्रेत અન્યથાનુપપત્તિરૂપ વ્યતિરેક જ થયો. સારાંશ એ છે કે બૌદ્ધ તાર્કિક જે તત્ત્વને અન્વય અને વ્યતિરેક પરસ્પરાશ્રિત રૂપોમાં વિભાજિત કરીને બન્નેય રૂપોનો હેતુલક્ષણમાં સમાવેશ કરે છે, તે જ તત્ત્વને જૈન તાર્કિક એકમાત્ર અન્યથાનુપપત્તિ યા વ્યતિરેકરૂપે સ્વીકાર કરીને તેની બીજી ભાવાત્મક બાજુને લક્ષમાં નથી લેતા.
५. २०५ 'विरोधि तु' व्याख्या
I
स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शो वह्नेरिति । प्रतिषेध्यस्य शीतस्पर्शे यः स्वभावः तस्य विरुद्धो वह्निस्तस्य चेहोपलब्धिः । कार्यविरुद्धोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेरिति । अन्त्यदशाप्राप्तमेव कारणं कार्यं जनयति न सर्वं ततो विशेषणोपादानम् । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं तस्य विरुद्धो वह्निः तस्येहोपलब्धिः । कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः सन्ति सन्निहितदहनविशेषत्वात् । प्रतिषेध्यानां रोमहर्षादिविशेषाणां कारणं शीतम्, तस्य विरुद्धो दहनविशेषस्तस्य चेहोपलब्धिः । व्यापकविरुद्धोपलब्धिर्यथा नात्र तुषारस्पर्शो दहनात् । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्येह विरुद्धो दहनविशेषः तस्येहोपलब्धिः । स्वभावविरुद्धकार्योपलब्धिर्यथा नात्र तुषारस्पर्शो धूमात् । प्रतिषेध्यस्य तुषारस्पर्शस्य यः स्वभावः तस्य विरुद्धो वह्निः । तस्य कार्यं धूमः तस्य चेहोपलब्धिः । कार्यविरुद्धकार्योपलब्धिर्यथा नेहा प्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति । प्रतिषेध्यानां शीतकारणानां कार्यं शीतं तस्य विरुद्धो वह्निः तस्य कार्यं धूमः तस्येहोपलब्धिः । कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादियुक्तपुरुषवानयं प्रदेशो धूमात् । प्रतिषेध्यानां हि रोमहर्षादिविशेषाणां कारणं शीतं तस्य विरुद्धो वह्निः तस्य कार्यं धूमः तस्येहोपलब्धिः । व्यापकविरुद्धकार्योपलब्धिर्यथा नात्र तुषारस्पर्शो धूमात् । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धोऽग्निः तस्य कार्यं धूमः
Jain Education International
-
—
For Private & Personal Use Only
www.jainelibrary.org