________________
૨૭૦
હેમચન્દ્રાચાર્યકિત પ્રમાણમીમાંસા 79. विप्रतिपत्ति भने प्रतिपत्तिना बावीस होछे. ते अमायोछे- (१) प्रतिशहानि., (२) प्रतिशतर, (3) प्रतिशाविरोध, (४) प्रतिशासंन्यास, (५) त्वन्तर, (E) अर्थान्तर, (७) निरर्थ, (८) भविशातार्थ, (८) अपार्थ5, (१०) AAIHSte, (११) न्यून, (१२) [48, (१3) पुनरत, (१४) अननुभाष, (१५) सान, (१६) अप्रतिमा, (१७) विक्षे५, (१८) मतानुश।, (१८) पर्यनुयोग्योपेक्ष५५, (२०) निरनुयो यानुयोग, (२१) अ५सिद्धान्त मने (२२) उत्पात्मासो.
આ બાવીસમાં અનનુભાષણ, અજ્ઞાન, અપ્રતિભા, વિક્ષેપ અને પર્યનુયોજ્યોપેક્ષણ આ પાંચ અપ્રતિપત્તિના ભેદો છે. અને બાકીના વિપ્રતિપત્તિના ભેદો छे.
80. तत्र प्रतिज्ञाहानेर्लक्षणम्-"प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः" [न्यायसू. ५.२.२.] इति सूत्रम् । अस्य भाष्यकारीयं व्याख्यानम्-"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । यथा अनित्यः शब्दः ऐन्द्रियकत्वाद्घटवदित्युक्ते परः प्रत्यवतिष्ठते-सामान्यमैन्द्रियकं नित्यं दृष्टं कस्मान तथा शब्दोऽपीत्येवं स्वप्रयुक्तहेतोराभासतामवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोति-यौन्द्रियकं सामान्यं नित्यम्, कामं घटोऽपि नित्योऽस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं प्रसजन् निगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षस्येति" [न्यायभा. ५. २. २] । तदेतदसङ्गतमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः तत्रैव धर्मपरित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागः, दृष्टान्तासाधुत्वे तेषामप्यसाधुत्वात् । तथा च प्रतिज्ञाहानिरेवेत्यसङ्गतमेव । वार्तिककारस्तु व्याचष्टे-"दृष्टश्चासावन्ते स्थितत्वादन्तश्चेति दृष्टान्तः पक्षः । स्वदृष्टान्तः स्वपक्षः । प्रतिदृष्टान्तः प्रतिपक्षः। प्रतिपक्षस्य धर्मं स्वपक्षेऽभ्यनुजानन् प्रतिज्ञां जहाति - यदि समान्यमैन्द्रियकम् नित्यं शब्दोऽप्येवमस्त्विति" [न्यायवा. ५. २. २] । तदेतदपि व्याख्यानमसङ्गतम्, इत्थमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org