SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ મૂલ સંસ્કૃત અને ગુજરાતી અનુવાદ ૧૯૫ સ્વભાવહેતુ– શબ્દની અનિત્યતા સિદ્ધ કરવા માટે આપવામાં આવેલો હેતુ “કૃતકત્વ' કે “શ્રાવણત્વ” સ્વભાવહેતુનું ઉદાહરણ છે. 41. ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः ? । विपर्यये बाधकप्रमाणबलात् सत्त्वस्येवेति ब्रूमः । न चैवं सत्त्वमेव हेतुः तद्विशेषस्योत्पत्तिमत्त्व-कृतकत्व-प्रयत्नानन्तरीयकत्व-प्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः । किंच, किमिदमसाधारणत्वं नाम ? । यदि पक्ष एव वर्तमानत्वम् तत् सर्वस्मिन् क्षणिके साध्ये सत्त्वस्यापि समानम् । साध्यधर्मवतः पक्षस्यापि सपक्षता चेत् इह कः प्रद्वेषः ? पक्षादन्यस्यैव सपक्षत्वे लोहलेख्यं वजं पार्थिवत्वात् काष्ठवदित्यत्र पार्थिवत्वमपि लोहलेख्यतां वज्रे गमयेत् । अन्यथानुपपत्तेरभावान्नेति चेत्; इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत्; अस्तु यद्यविनाभावोऽस्ति, शकटोदये कृत्तिकोदयस्य, सर्वज्ञसद्भावे संवादिन उपदेशस्य गमकत्वदर्शनात् । काकस्य कायं न प्रासादे धावल्यं विनानुपपद्यमानमित्यनेकान्तादगमकम् । तथा, घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । तन्न श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरति । ननु कृतकत्वाच्छब्दस्यानित्यत्वे साध्ये पर्यायवद् द्रव्येऽप्यनित्यता प्राप्नोति । नैवम्, पर्यायाणामेवानित्यतायाः साध्यत्वात्, अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म प्रस्मरति भवान् ? ननु कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत् साध्यस्य सिद्धत्वम्, साध्यवच्च साधनस्य साध्यत्वं प्रसजति । सत्यमेतत्, किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह "सादेरपि न सान्तत्वं व्यामोहाद्योऽधिगच्छति । साध्यसाधनतैकस्य तं प्रति स्यान्न दोषभाक् ॥" 41. शं - 'श्रीवत्व' उतु असाधा२९॥ छ अर्थात् ५६ सिवाय जी यांय (સપક્ષમાં પણ) તે હોતો નથી, તો પછી સાધ્ય સાથે તેની વ્યાપ્તિ કેવી રીતે સિદ્ધ થશે? હેમચન્દ્રાચાર્ય – અનિત્યત્વથી વિપરીત જે નિત્યત્વ છે તેનું બાધક પ્રમાણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy