________________
૩૫૩
શીલાંકકૃત વિવરણ
जयति समस्तवस्तुपर्यायविचारापास्ततीथिकं, .. विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधिभंगिसिद्धसिद्धान्तविधूनितमलमलीमसं,
तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥ १ ॥ आचारशास्त्रं सुविनिश्चितं यथा,
जगाद वीरो जगते हिताय यः । तथैव किंचिद् गदतः स एव मे,
पुनातु धीमान् विनयार्पिता गिरः ॥ २ ॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् ।
तस्मात् सुखबोधार्थं गुह्याम्यहमञ्जसा सारम् ॥ ३ ॥ मायार्थ सर्वप्रथम सूत्रोनो ५६ ३३ छ. ५६६ [ पछी 'साम्प्रतं सूत्रपदार्थः' अjीने पहोनो अर्थ स्पष्ट ४३ छ. तहनन्तर तद्विषय विशेष itસમાધાન તરફ ધ્યાન આપે છે. આ પ્રસંગે પોતાના વક્તવ્યની વિશેષ પુષ્ટિ માટે स्यांच्यis 6रो ५९ प्रस्तुत छ. 'सुयं मे आउसं ! तेणं भगवया एवमक्खायंइहमेगेसि णो सण्णा भवति' (२० १)नु व्याज्यान त वृत्तिार ४ छ : तच्चेदं सूत्रम्-'सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसि णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोच्चरितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते - भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकणितमवगतमवधारितमिति यावद्, अनेन स्वमनोषिकाव्युदासो 'मये' ति साक्षान्न पुन: पारम्पर्येण, 'आयुष्मन्निति' जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्.... 'इहे' ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमिति सम्बन्धो, यदि वा-'इहे' त्ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति', संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायते इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसम्भवे सति किमर्थ नोशब्देन प्रतिबोध इति? अत्र प्रत्यवस्था-सत्यमेवं, किन्तु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटाऽघट इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org