________________
( २० ) १६ शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत् । २० माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत् । २१ हेत्वाभासा प्रसिद्धविरुद्धानकान्तिकाकिञ्चित्कराः । २२ प्रसत्सत्तानिश्चयोऽसिद्धः । २३ अविद्यमानसत्ताक: परिणामी शब्दश्चाक्षुषस्वात् । २४ स्वरूपेरणासत्त्वात् ।। २५ अविद्यमाननिश्चयो मुग्धबुद्धि प्रत्यग्निरत्र धूमात् । २६ तस्य बाष्पादिभावेन भूतसंघाते सन्देहात् । २७ सांख्यं प्रति परिणामी शब्दः कृतकत्वात् । २८ तेनाज्ञातत्वात् । २६ विपरीतनिश्चिताबिनाभावो विरुद्धोऽपरिणामी शब्द : कृतकत्वात् । ३० विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः । ३१ निश्चित वृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत् । ३२ प्राकाशे नित्येऽप्यस्य निश्चयात् । ३३ शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् । ३४ सर्वज्ञत्वेन वक्तृत्वाविरोधात् । ३५ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः । ३६ सिद्धः श्रावणः शब्दः शब्दत्वात् । ३७ किञ्चिदकरणात् ३८ यथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुम शक्यत्वात् । ३६ लक्षण एवासौ दोषो व्युत्पन्न प्रयोगस्य पक्षदोषेणैव दुष्टत्वात् । ४० दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः । ४१ अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रिय सुखपरमाणुघटवत् । ४२ विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् । ४३ विद्युदादिनाऽतिप्रसङ्गात् । ४४ व्यतिरेकेऽसिद्धतद्व्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् । ४५ विपरीतव्यतिरेकश्च यन्नामुर्त तन्नापौरुषेयम् । ४६ बालप्रयोगाभास : पञ्चावयवेषु कियद्धीनता । ४७ अग्निमानयं देशो धूमवत्त्वात् यदित्थं तदित्थं यथा महानस इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.