________________
तृतीय खंड में प्रागत परीक्षा मुख के सूत्र
॥ पञ्चमः परिच्छेदः ॥ १ प्रज्ञान निवृत्तिानोपादानोपेक्षाश्च फलम् । २ प्रमाणाद भिन्न भिन्नश्च । ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीते।।
॥ षष्ठः परिच्छेदः ॥ १ ततोऽन्यत्तदाभासम् । २ अस्वसंविदितगृहीतार्थदर्शनसंशयादय : प्रमाणाभासाः। ३ स्वविषयोपदर्शकत्वाभावात् ।। ४ पुरुषान्तरपूर्वार्थगच्छत्त णस्पर्शस्याणुपुरुषादिज्ञानवत् । ५ चक्षूरसयोद्रव्ये संयुक्तसमवायवच्च । ६ अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धूमदर्शनाद्वह्निविज्ञानवत् । ७ वैशोऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् । ८ प्रतस्मिस्तदिति ज्ञानं स्मरणाभासम्, जिनदत्त स देवदत्तो यथा । & सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् । १० असम्बद्धे तज्ज्ञानं तर्काभासम्, यावांस्तत्पुत्रः स श्यामो यथा। ११ इदमनुमानाभासम् । १२ तत्रानिष्टादिः पक्षाभासः । १३ अनिष्टो मीमांसकस्यानित्यः शब्दः । १४ सिद्धः श्रावणः शब्द।। १५ बाधितः प्रत्यक्षानुमानागमलोकस्ववचन।। १६ अनुष्णोऽग्निद्रव्यत्वाज्जलवत् । १७ अपरिणामी शब्द : कृतकत्वात् घटवत् । १८ प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितस्वादधर्मवत् । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org