________________
८८६] तिलोयपण्णत्ती
[९३सच्छायं पात्रसंयुक्तं सुममोभिः समञ्चितम् । फलदायकमुच्चैःस्थं नानाश्रमणसेवितम् ॥ १३ ॥ यमुद्दिश्य समागत्य चतुर्दिग्भ्यो मुनीश्वराः। विश्राम्यन्ति च वन्दित्वा महाद्रममिवाध्वगाः ॥९॥ युगकम्। पूर्वजन्मजपापौघराशिं संदरधुमिच्छकैः । भव्यरुक्षिप्तकर्परकृष्णागुरुजधूपजम् ॥ ९५॥ मंण्डलीभूतमालोक्य धूमं खे मेघर्श किनः । अकाण्डे ताण्डवाटोपं यत्र तन्वन्ति बर्हिणः ॥९६ ।। युग्मम् । येन चारुभटाख्येन पण्डितानां । अन्वर्थेन हि पापारिनिर्जितोऽत्र सुभासिना ।। ९ ।।
विलोक्य संसारशरीरभोग्यं विनश्वरं दर्भपुटस्थिताम्बुवत् ।
परोपकारे जगतीह सारे धृता मतिर्येन सदा विशुद्धा ॥ ९८॥ यत्कीर्त्या हरहारचन्द्रकिरणोत्तङ्गदुग्धार्णव-रङ्गभङ्गतरङ्गसंनिभभया श्वेतीकृते विष्टपे । श्रीवैरिस्त्रिजनैर्विलोक्य वदनं स्वादेर्शपट्टे सिते, श्वभ्रं वा विकृति विबुध्य रुरुदे पत्युर्वियोगाभयात् ॥१९॥ पद्मावती जनी तस्य पद्माख्या पद्मसंनिभा । पद्मावतीव नागाधिपतेः संभोगदायिनी ।। १.०॥ लावण्यवाहिनीकाया यस्या रूपं विलोक्य ते । युवानः स्मरबाणौधैर्विध्यन्ते शतजर्जरम् ॥११॥ सीता मन्दोदरी गङ्गा द्रोपदी चन्दना यया । जिग्ये शीलेन सत्येन कलौ स्वःसौख्यदायिना ।। १०१ ॥ प्रातः पवित्रभूताङ्गी समातमीश्वरम् । वन्दित्वा सुगुरूच्छास्त्रं श्रुत्वागत्य स्वमन्दिरम् ॥ १०३ ॥ भोजनावसरे साध्वी या श्रद्धादिगुणन्विता। भुक्ति वितीर्य पात्रेभ्यस्तत्तो भोजयते पतिम् ॥१०॥ युग्मम् । एषां मध्ये स्ववित्तेन न्यायेनोपार्जितेन वै । संघशवाहडाख्येन विनयादिगुगाश्रित।। १०५।। विज्ञापयित्वा मेधाविनामानं पण्डितं वरम् । सिद्धान्तरसतप्तान्तःकरणं शरणं धियाम् ॥१६॥ लेखयित्वा हिसाराख्यनगरानगराजितात् । पुर्या सिंहतरङ्गिण्यामानाय्य स्वःसमश्रियाम् ॥ १० ॥ प्रावस्यैतस्सिद्धान्तं हि भव्यानां पठनाय च । केवलज्ञानसंभूत्यै स्वज्ञानावृतिहानये ॥१०८॥ चतुष्कलम् । पश्चान्मेधाविसंज्ञाय पण्डिताय सदात्मने । प्रदत्तं शास्त्रमेतद्धि यत्परंपरयागतम् ॥ १०९॥ योऽष्टाविंशतिमूलसद्गुणयुतो धत्ते गुणानुत्तरान् , खण्डेलान्वयमण्डनेन्दुवदनश्रीपद्मसिंहाजः । सीहाचाहडसरसहोदरलसर्परूकपुत्रान्वितः, सोऽयं श्रीयशकीर्तिरत्र भवते दद्याच्छूियं मङ्गलम् ॥११॥
भाशीर्वादः । तदा तैर्जिनबिम्बानामाभिषेकपुरस्सरा । कारितार्चा महाभक्त्या यथायुक्तिकृतोत्सवम् ॥1॥ भृङ्गारकलशादीनि जिनावासेषु पञ्चसु । क्षिप्तानि पञ्च पञ्चैव चैत्योपकरणाणि च ॥१२॥ चतुर्विधाय संघाय सदाहारचतुर्विधः । प्रादाय्यौषधदानं च वस्त्रोपकरणाणि च ॥१३॥ मित्र-याचक-हीनेभ्यः प्रीति-तुष्टि-कृपादि च । दानं प्रदत्तमित्यादि धनव्ययो व्यधायि तैः ॥१४॥ इत्थं सप्तक्षेन्यां वपते यो दानमात्मनो भक्त्या। लभते तदनन्तगुणं परत्र सोऽत्रापि पूज्यः स्यात् ॥१५॥ .
यो दत्ते ज्ञानदानं भवति हि स नरो निर्जराणां प्रपूज्यो भुक्त्वा देवाङ्गनाभिर्विषयसुखमनुप्राप्य मानुष्यजन्म । भुक्त्वा राज्यस्य सौख्यं भवतनुजसुखानिस्पृढीकृत्य चित्तं
लात्वा दीक्षां च बुध्वा श्रुतमपि सकलं ज्ञानमन्त्यं लभेत || ११६॥ ज्ञानदानानवेज्ज्ञानी सुखी स्यादोजनादिह । निर्भयोऽभयतो जीवो नीरुगौषधदानतः ॥१७॥
धर्मतः सकलमङ्गलावली धर्मतो भवति मुण्डकेवली। धर्मतो जिनसुचक्रभृद्धली नाव तद्रिपुमुखो नरो बली ॥ १८ ॥
१ दर्भपुरस्थिता. २ श्रादर्श. ३ पत्रारव्य. ४ युक्तिवसोत्सवं. ५ भवतनुखस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org