________________
८८४ ]
तिलोय पण्णत्ती
द्वितीयो ब्रह्ममेघाख्यो भवकायविरक्तधीः । विनयादिगुणैर्युक्तः शास्त्राध्ययनतत्परः ॥ २७ ॥ आग्रोतवंशजः साधुर्लवदेवाभिधानकः । तत्त्वमुद्धरण: ' संज्ञा तत्पत्नी भीपुही श्रुतिः ॥ २८ ॥ तयोः पुत्रोऽस्ति मेधाविनामा पण्डितकुञ्जरः । आप्तागमविचारज्ञो जिनपादाब्जषट्पदः ॥ २९ ॥ एषामाम्नाय संभूते वंशे खण्डेलसंज्ञके । गोत्रो गोधाभिधानेन नानागोधाकरोऽजनि ॥ ३० ॥ साधुसावंतकस्तत्र सोबतंसोपमः कुले । यस्योपकारजा कीर्त्या सर्व श्रेतीकृतं जगत् ॥ ३१ ॥ तत्पुत्रौ परमोदारौ दानमानादिसद्गुणैः । नागपाशाविवाश्लिष्टौ मिथः स्नेहवशौ भृशम् ॥ ३२ ॥ साधुः कुमारपालाख्यस्तदाद्योऽभूत्सतां मतः । देवपूजादिषट्कर्मनिरतो विरतोऽशुभात् ॥ ३३ ॥ तत्पत्नी लाछिसंज्ञासीलक्ष्मीरिव हरेः प्रिया । यया जिग्ये स्वशीलेन सीता रूपेण सद्वतिः ॥ ३४ ॥ तत्पुत्रत्रितयं जातं विनयादिगुणाश्रितं । येन स्वं भूषितं गोत्रं तपो रत्नत्रयेण वा ॥ ३५ ॥ तत्राद्यः पद्म/संहाह्वः संघेशो जिनवादश्रित् । ऽहिंसासत्यादिपञ्चाणुत्रतभूषणभूषितः ॥ ३६ ॥ भाग्यं भालस्थले यस्य शिरस्युच्चैर्गुरोर्नतिः । शास्त्रस्य श्रवणं श्रुत्योर्तेनयोः साम्यदर्शनम् ॥ ३७ ॥ वचने प्रियवादित्वं कण्ठे सद्गुणकीर्तनम् । बुद्धौ परोपकारस्तु हृदि पञ्चगुरुस्मृतिः ॥ ३८ ॥
करे दानं सुपात्रस्य लक्ष्मीवक्षःस्थलेऽवसत् । पादयोस्तीर्थयात्रा हि सभा भूपतिसंनिधौ ||३९|| त्रिकलम् अन्यो नेमाभिधानोऽभून्नियमादिगुणालयः । संघधूर्धरणे नेमिर्निजवंशनभोरविः ॥ ४० ॥ जातः पुरुषसारंगः सारंगस्तृतीयः सुतः । चतुर्विधमहादानविधौ कल्पतरुप्रभः ॥ ४१ ॥ साधुसावंतसंज्ञस्य यो द्वितीयस्तनूरुहः । सोऽयं झाझणनामासीच्छीलालंकृतविग्रहः ॥ ४२ ॥ तदङ्गज।स्त्रयः ख्याता मुनिराजसदस्यथो | दानिनो मानिनश्चापि धनिनोऽपि यशस्विनः ॥ ४३ ॥ "तेष्वाद्यः साधुसाल्हाख्यः साह्लादो जिनपूजने । द्यूतादिव्य सनत्यागाच्छ्रावकव्रतभावकः ॥ ४४ ॥ सहजाको द्वितीयोऽभूत्सहजेनः प्रियंवदः । गाम्भीर्येण पयोराशिं यो जिगाय धिया गुरुम् ॥ ४५ ॥ तृतीय : सावलाभिख्यो जातो जगति कीर्तिमान् । यो दानं याचकेभ्योऽदात्प्रहृष्टो दृष्टिमात्रतः ॥ ४६ ॥ श्रीमत्कुमारपालस्य यो जातः प्रथमोऽङ्गजः । पद्मसिंहोऽभिधानेन पद्माभास्यो जनप्रियः ॥ ४७ ॥ तद्भार्या कृतसत्कायी साध्वी मेहिणिसंज्ञका । गौरीवेशस्य चंद्रस्य रोहिणीव मनः प्रिया ॥ ४८ ॥ या सती नारिवृन्देsभाच्छीलनिर्मलवारिभिः । गीतादिकलहंसैश्च गंगेव सरितां गणे ॥ ४९ ॥ तयोस्तनूरुहाः सन्ति त्रयः कन्दर्पमूर्तयः । शंखकुन्देन्दुहाराभकीर्तयः पटुरीतयः ॥ ५० ॥ तेषामाद्योऽस्ति संघेशो घेरूनामा गुणाकरः । सतामग्रेसरः स्फारः सर्वलोकमनोहरः ॥ ५१ ॥ मानित: सुरतानेन बहलोलाभिधेन यः । पुर्यां सिंहतरंगिण्यां भाण्डागारपदे धृतः ॥ ५२ ॥ ये बन्दिगृहमानीता म्लेच्छैः श्राद्धादिसज्जनाः । तान्विमोच्य स्वद्रव्येण न्यायेनोपार्जितेन वै ॥ ५३ ॥ तेभ्यो दत्वा च सद्भुक्तिं वस्त्राणि परिधाप्य च । व्ययं वितीर्य मार्गाय विससर्ज गृहं प्रति ॥ ५४ ॥ युगलमू भाण्डागारपदे यस्मिन् श्रावकाः सुखमास्थिताः । दानपूजाविधींश्चक्रुर्भक्त्या संविग्नमानसाः ॥ ५५ ॥ दुर्गनगरकोटा येन सूत्तुंगतोरणम् । कलशध्वजरोचिष्णु कारितं जिनमन्दिरम् ॥ ५६ ॥ सूहोनाम्न्यस्ति तजाया लसच्छाया कलालया । दायिनी पात्रदानानां भर्तुर्भक्तिविधायिनी ॥ ५७ ॥ मिष्टां यद्विरमाकर्ण्य कोकिला वा हिया पुरात् । निर्गत्य स्वं च निन्दन्ती वनवासमशिश्रियत् ॥ ५८ ॥ यदास्येन जितं चन्द्रं मन्ये संपूर्णमण्डलम् । नोचेत्कथं तमोघ्नः स क्षीयते प्रतिवासरम् ॥ ५९ ॥
Jain Education International
१ तत्व गुद्ध. २ रविं.
[ २७
३ सहादो. ४ यतीर्य. ५ लच्चकाया. ६ ततोः
For Private & Personal Use Only
www.jainelibrary.org