________________
बंबई प्रतिकी लिपिकार प्रशस्ति । वृषभो वः श्रियं कुर्याद् वृषभाङ्को वृषाग्रणीः । ध्वस्ता रागादयो येन दोषाः सिंहेन वा मृगाः ॥ १॥ चन्द्रप्रभो जिनो जीयाञ्चन्द्राभोऽपि तनुश्रिया । निःकलंकः कलानेको भ्रान्तिहीनस्तमोगतः ॥३॥ शान्तिः शान्तिको भूयात्षोडशस्तीर्थनायकः । चकार जगतः शान्ति यो धर्मामृतवर्षणैः॥४॥ श्रीवीरं च महावीरं वर्धमानं च सन्मतिम् । महति प्रणमामीशं कलौ कल्पतरूपमम् ॥१॥ यदाकम्य जना यान्ति पारं संसारवारिधेः । अनन्तमहिमाब्वं तजैन जयति शासनम् ॥ ५॥ नवन्तु गौतमस्वामिप्रमुखा गणनायकाः । सूरयो जिनचन्द्रान्ता: श्रीमन्तः क्रमदेशकाः ॥६॥ वर्षे नवैकपंचैक (१५१९) पूरणे विक्रमे ततः ! ज्येष्ठमासे सिते प्रक्षे पंचम्वां भौमवासरे ॥ ७ ॥ अधोमध्योललोकस्य यस्यां प्रज्ञापनं मतं । तस्यास्त्रैलोक्यप्रज्ञप्तेर्वश लेखयितुटुंबे ॥ ८॥ अथश्रीजम्यूपपदे द्वीपे क्षेत्रे भरतसंज्ञके। कुरुमङ्गलदेशोऽस्ति यो देशः सुखसंपदाम् ॥ ९॥ विद्यते तत्समीपस्था श्रीमती योगिनीपुरी । यां पाति पाखिसाहि श्रीवइलोलाभिधो मृपः ॥१०॥ तस्याः प्रत्यग्दिशि ख्यातं. श्रीहिसारपिरोजकम् । मगरं नगरम्भादिवल्लीराजिविराजितम् ॥११॥ तत्र राज्यं करोत्येष श्रीमान् कुतवखानकः । यश्चकार प्रजाः स्वस्था दाता भोक्ता प्रतापवान् ॥ १२॥ अथ श्रीमूलसंघेऽस्मिन् नन्दिसंघेऽनघेऽजनि । बलात्कारगणस्तत्र गच्छः सारस्वतस्त्वभूत् ॥ १३ ॥ तत्राजनि प्रभाचन्द्रः सूरिचन्द्रो जिताङ्गजः । दर्शनज्ञानचारित्रतपोवीर्यसमन्वितः ॥१४॥ श्रीमान् बभूव मार्तण्डस्तत्पहोदयभूधरे । पद्मनन्दी बुधानन्दी तमश्छेदी मुनिप्रभुः ॥ १५॥ तत्पदाम्बुधिसचन्द्रः शुभचन्द्रः सतां वरः । पञ्चाक्षवनदावाग्निः कषायक्ष्माधराशनिः॥१६॥
तदीयपट्टाम्बरभानुमाली क्षमादिनानागुणरत्नशाली ।
भट्टारकश्रीजिनचन्द्रनामा सैद्धान्तिकानां भुवि योऽस्ति सीमा || १७॥ स्याद्वादामृतपानतृप्तमनसो यस्यातनोत्सर्वतः, कीर्ति भूमितले शशाधवला सुज्ञानदानात्सतः । चार्वाकादिमतप्रवादितिमिरोष्मांशोमुनीन्द्रप्रभोः, सूरिश्रीजिनचन्द्रकस्य जयतासंघो हि तस्यानघः॥१८॥ बभूव मण्डलाचार्यः सूरेः श्रीपमनन्दिनः । शिष्यः सकलकीयाख्यो लसत्कीर्तिमहातपाः ॥ १९॥ आचार्यो जयकाहस्तच्छिष्यो मुनिकुञ्जरः । उत्तमक्षान्तिमुख्यानि धर्माङ्गानि दधाति यः ॥२०॥ दक्षिणात उदरदेशे समागत्य मुनिप्रभुः । जैनमुद्द्योतयामास शासनं धर्मदेशनात् ॥२१॥ प्रर्या सिंहवरंगिण्यां यस्मिन्या मुनीश्वरे । भव्यैः सम्यक्रममाहि कैश्चिच्चाणुमहानतम् ॥ २२ ॥ हरिभूषणसंज्ञोऽस्ति तस्म शिण्योऽस्तमन्मथः । एकान्तरायजत्रं यः करोत्युग्रं तपो मुनिः ॥ २३ ॥ 'परः सहस्रकीाख्यस्तच्छिष्यो भवभीरुकः । दीक्षां जग्राह यस्त्यक्त्वा भ्रातृ-पुत्र-परिग्रहम् ।। २४॥ धान्तिका मास्तिनीलादिगणरत्नखनिः सती। गन्धर्वश्रीरिति ख्याता शीलालङ्कारविग्रहा ॥ २५॥ अणुव्रत्यास्ति वोपाख्यो जिनादिष्टासदूरुचिः । शंकाकांक्षादिनिर्मुक्तसम्यक्त्वादिगुणान्वितः ॥ २६ ॥
इन दोनों प्रशस्ति-पाठोंमें बहुत अशुक्रिया मिलती हैं। हमने प्रायः समी लिपिदोषों को सुधारा है। जहाँ बहाँ पाठपरिवर्तन किया है वहाँका मूल पाठ नीचे दिया जाता है
१ जिनेन्द्रान्ताः २"तु ते. ३ दक्षिमा उद. ४ यस्मिायते. ५ 'योस्पादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org