________________
इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४-४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४-४४॥ तविपरीतस्तु विकलादेशः ॥४-४५॥ तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरुपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥४-४६॥ न तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात् ॥४-४७॥
(पञ्चमः परिच्छेदः) तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरुपपरिणत्याऽर्थक्रियासामर्थ्यघटनाच्च ॥२॥ सामान्यं द्विपकारं तिर्यक्सामान्यमूर्खतासामान्यं च ॥३॥ प्रतिव्यक्ति तुल्या परिणति स्तिर्यक्सामान्यम्, शवलशावलेयादिपिण्डेषु गोत्वं यथा ॥४॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥ विशेषोऽपि द्विरूपो गुण: पर्यायश्च ॥६॥ गुण: सहभावी धर्मो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org