SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विधिप्रधान एव ध्वनिरिति न साधु ॥४-२२ ॥ निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥४-२३॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥४- २४॥ क्वचित् कदाचित् कथञ्चित् प्राधान्येन्याप्रतिपन्नस्य तस्याप्राधान्यानुपपत्तेः ॥४-२५॥ निषेधप्रधान एव शब्द इत्यापि प्रागुक्तन्यायादपास्तम् ॥४-२६॥ क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥४-२७॥ अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥४-२८॥ युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्त्रम् ॥४-२९॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥४-३०॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः ॥४-३१॥ निषेधात्मनः सह द्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥४-३२॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रमणीयम् ॥४-३३॥ इतरथापि संवेदनात् ॥४-३४॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनिर्नान्यथेत्यपि मिथ्या ॥४-३५ ॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥४-३६॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निषेधम् ॥४-३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ॥४-३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् ॥४-३९॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥४-४०॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥४-४१॥ तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४-४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001267
Book TitleRatnakaravatarika Part 2
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1999
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy